Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 26
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - पुरोद्व्यतिजागता भुरिग्जगती सूक्तम् - अध्यात्म सूक्त

    यो वि॒श्वच॑र्षणिरु॒त वि॒श्वतो॑मुखो॒ यो वि॒श्वत॑स्पाणिरु॒त वि॒श्वत॑स्पृथः। सं बा॒हुभ्यां॑ भरति॒ सं पत॑त्त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑ ॥

    स्वर सहित पद पाठ

    य: । वि॒श्वऽच॑र्षणि: । उ॒त । वि॒श्वत॑:ऽमुख: । य: । वि॒श्वत॑:ऽपाणि: । उ॒त । वि॒श्वत॑:ऽपृथ: । सम् । बा॒हुऽभ्या॑म् । भर॑ति । सम् । पत॑त्रै: । द्यावा॑पृथि॒वी इति॑ । ज॒नय॑न् । दे॒व: । एक॑: ॥२.२६॥


    स्वर रहित मन्त्र

    यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः। सं बाहुभ्यां भरति सं पतत्त्रैर्द्यावापृथिवी जनयन्देव एकः ॥

    स्वर रहित पद पाठ

    य: । विश्वऽचर्षणि: । उत । विश्वत:ऽमुख: । य: । विश्वत:ऽपाणि: । उत । विश्वत:ऽपृथ: । सम् । बाहुऽभ्याम् । भरति । सम् । पतत्रै: । द्यावापृथिवी इति । जनयन् । देव: । एक: ॥२.२६॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 26

    टिप्पणीः - २६−(यः) परमेश्वरः (विश्वचर्षणिः) सर्वद्रष्टा-निघ० ३।११। (उत) अपि (विश्वतोमुखः) सर्वतोमुखं प्रधानं व्यवहार उपायो वा यस्य सः (यः) (विश्वतस्पाणिः) पण व्यवहारे-इण्। सर्वतो हस्तसामर्थ्यं यस्य सः (उत) (विश्वतस्पृथः) पातॄतुदिवचि०। उ० २।७। पृ पालनपूरणयोः-थक्, टाप्। सर्वतः पृथा पूर्तिर्यस्य सः (सम्) सम्यक् (बाहुभ्याम्) धारणाकर्षणरूपभुजाभ्याम् (भरति) पुष्णाति (सम्) सह (पतत्रैः) गमनशीलैः परमाणुभिः (द्यावापृथिवी) सूर्यभूलोकौ (जनयन्) उत्पादयन् (देवः) प्रकाशस्वरूपः (एकः) अद्वितीयः ॥

    इस भाष्य को एडिट करें
    Top