अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
वि॑प॒श्चितं॑ त॒रणिं॒ भ्राज॑मानं॒ वह॑न्ति॒ यं ह॒रितः॑ स॒प्त ब॒ह्वीः। स्रु॒ताद्यमत्त्रि॒र्दिव॑मुन्नि॒नाय॒ तं त्वा॑ पश्यन्ति परि॒यान्त॑मा॒जिम् ॥
स्वर सहित पद पाठवि॒प॒:ऽचित॑म् । त॒रणि॑म् । भ्राज॑मानम् । वह॑न्ति । यम् । ह॒रित॑: । स॒प्त । ब॒ह्वी: । स्रु॒तात् । यम् । अत्त्रि॑: । दिव॑म् । उ॒त्ऽनि॒नाय॑ । तम् । त्वा॒ । प॒श्य॒न्ति॒ । प॒रि॒ऽयान्त॑म् । आ॒जिम् ॥2.४॥
स्वर रहित मन्त्र
विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः। स्रुताद्यमत्त्रिर्दिवमुन्निनाय तं त्वा पश्यन्ति परियान्तमाजिम् ॥
स्वर रहित पद पाठविप:ऽचितम् । तरणिम् । भ्राजमानम् । वहन्ति । यम् । हरित: । सप्त । बह्वी: । स्रुतात् । यम् । अत्त्रि: । दिवम् । उत्ऽनिनाय । तम् । त्वा । पश्यन्ति । परिऽयान्तम् । आजिम् ॥2.४॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(विपश्चितम्) वि+प्र+चिञ् चयने-क्विप्, तुक्। पार्थिवरसानां विविधं चयनशीलम् (तरणिम्) अन्धकारात् तारकं सूर्यम् (भ्राजमानम्) प्रकाशमानम् (वहन्ति) गमयन्ति (यम्) (हरितः) हृसृरुहियुषिभ्य इतिः। उ० १।९७। हृञ् प्रापणस्वीकारस्तेयनाशनेषु-इति प्रत्ययः। हरित आदित्यस्याऽऽदिष्टोपयोजनानि-निघ० १।१५। रसाकर्षकाः किरणाः (सप्त) शुक्लनीलपीतरक्तहरितकपिशचित्ररूपयुक्ताः (बह्वीः) बह्व्यः। अनेकविधाः (स्रुतात्) स्रवणशीलात् प्रकृतिरूपसमुद्रात् (यम्) (अत्रिः) अदेस्त्रिनिश्च। उ० ४।६८। अत सातत्यगमने−त्रिप्। सदाज्ञानवान् परमात्मा। (दिवम्) आकाशम् (उन्निनाय) उन्नतवान् (तम्) (त्वा) (पश्यन्ति) अवलोकयन्ति विद्वांसः (परियान्तम्) परितो गच्छन्तम् (आजिम्) अज्यतिभ्यां च। उ० ४।१३१। अज गतिक्षेपणयोः-इण्। मर्यादाम्। संग्रामम् ॥
इस भाष्य को एडिट करें