अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 45
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - अतिजागतगर्भा जगती
सूक्तम् - अध्यात्म सूक्त
पर्य॑स्य महि॒मा पृ॑थि॒वीं स॑मु॒द्रं ज्योति॑षा वि॒भ्राज॒न्परि॒ द्याम॒न्तरि॑क्षम्। सर्वं॑ सं॒पश्य॑न्त्सुवि॒दत्रो॒ यज॑त्र इ॒दं शृ॑णोतु॒ यद॒हं ब्रवी॑मि ॥
स्वर सहित पद पाठपरि॑ । अ॒स्य॒ । म॒हि॒मा । पृ॒थि॒वीम् । स॒मु॒द्रम् । ज्योति॑षा । वि॒ऽभ्राज॑न् । परि॑ । द्याम् । अ॒न्तरि॑क्षम् । सर्व॑म् । स॒म्ऽपश्य॑न् । सु॒ऽवि॒दत्र॑: । यज॑त्र: । इ॒दम् । शृ॒णो॒तु॒ । यत् । अ॒हम् । ब्रवी॑मि ॥२.४५॥
स्वर रहित मन्त्र
पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन्परि द्यामन्तरिक्षम्। सर्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥
स्वर रहित पद पाठपरि । अस्य । महिमा । पृथिवीम् । समुद्रम् । ज्योतिषा । विऽभ्राजन् । परि । द्याम् । अन्तरिक्षम् । सर्वम् । सम्ऽपश्यन् । सुऽविदत्र: । यजत्र: । इदम् । शृणोतु । यत् । अहम् । ब्रवीमि ॥२.४५॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 45
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४५−(परि) आधिक्ये (अस्य) परमेश्वरस्य (महिमा) महत्त्वम् (पृथिवीम्) (समुद्रम्) पार्थिवजलौघम् (ज्योतिषा) तेजसा (विभ्राजन्) प्रकाशमानः (परि) (द्याम्) सूर्यलोकम् (अन्तरिक्षम्) (सर्वम्) अखिलम्। अन्यत् पूर्ववत्-म० ४४ ॥
इस भाष्य को एडिट करें