Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 46
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - अध्यात्म सूक्त

    अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास॑म्। य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥

    स्वर सहित पद पाठ

    अबो॑धि । अ॒ग्नि: । स॒म्ऽइधा॑ । जना॑नाम् । प्रति॑ । धे॒नुम्ऽइ॑व । आ॒ऽय॒तीम् । उ॒षस॑म‌् । य॒ह्वा:ऽइ॑व । प्र । व॒याम् । उ॒त्ऽजिहा॑ना: । प्र । भा॒नव॑: । सि॒स्र॒ते॒ । नाक॑म् । अच्छ॑ ॥२.४६॥


    स्वर रहित मन्त्र

    अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम्। यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ ॥

    स्वर रहित पद पाठ

    अबोधि । अग्नि: । सम्ऽइधा । जनानाम् । प्रति । धेनुम्ऽइव । आऽयतीम् । उषसम‌् । यह्वा:ऽइव । प्र । वयाम् । उत्ऽजिहाना: । प्र । भानव: । सिस्रते । नाकम् । अच्छ ॥२.४६॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 46

    टिप्पणीः - ४६−(अबोधि) बुध्यतेस्म (अग्निः) शारीरिकाग्निः (समिधा) काष्ठान्नघृतादिप्रदीपनसाधनेन (जनानाम्) प्राणिनां मध्ये (प्रति) (धेनुम्) दीग्ध्रीं गाम् (इव) यथा (आयतीम्) आगच्छन्तीम् (उषसम्) सांहितिको दीर्घः। प्रातः सायं सन्धिवेलाम् (यह्वाः) शेवायह्वजिह्वा०। उ० १।१५४। यज देवपूजादिषु-वन्, जस्य हः। यह्वो महन्नाम-निघ० ३।३। महान्तः पुरुषाः (प्र) प्रकर्षेण (वयाम्) वय गतौ-अच्, टाप्। गतिम्। नीतिम् (उज्जिहानाः) ओहाङ् गतौ-शानच्। ऊर्ध्वं गच्छन्तः (प्र) (भानवः) प्रकाशमानाः प्रभवः पुरुषाः (सिस्रते) सृ गतौ-लट्, शपः श्लुः, आत्मनेपदं छान्दसम्। प्राप्नुवन्ति (नाकम्) सुखस्वरूपं परमात्मानम् (अच्छ) आभिमुख्येन ॥

    इस भाष्य को एडिट करें
    Top