अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - जगती
सूक्तम् - अध्यात्म सूक्त
यत्प्राङ्प्र॒त्यङ्स्व॒धया॒ यासि॒ शीभं॒ नाना॑रूपे॒ अह॑नी॒ कर्षि॑ मा॒यया॑। तदा॑दित्य॒ महि॒ तत्ते॒ महि॒ श्रवो॒ यदेको॒ विश्वं॒ परि॒ भूम॒ जाय॑से ॥
स्वर सहित पद पाठयत् । प्राङ् । प्र॒त्यङ् । स्व॒धया॑ । यासि॑ । शीभ॑म् । नाना॑रूपे॒ इति॒ नाना॑ऽरूपे । अह॑नी॒ इति॑ । कर्षि॑ । मा॒यया॑ । तत् । आ॒दि॒त्य॒ । महि॑ । तत् । ते॒ । महि॑ । श्रव॑: । यत् । एक॑: । विश्व॑म् । परि॑ । भूम॑ । जाय॑से ॥2.३॥
स्वर रहित मन्त्र
यत्प्राङ्प्रत्यङ्स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया। तदादित्य महि तत्ते महि श्रवो यदेको विश्वं परि भूम जायसे ॥
स्वर रहित पद पाठयत् । प्राङ् । प्रत्यङ् । स्वधया । यासि । शीभम् । नानारूपे इति नानाऽरूपे । अहनी इति । कर्षि । मायया । तत् । आदित्य । महि । तत् । ते । महि । श्रव: । यत् । एक: । विश्वम् । परि । भूम । जायसे ॥2.३॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यत्) यस्मात् कारणात् (प्राङ्) आभिमुख्येन पूर्वदिशि वा गच्छन् (प्रत्यङ्) पश्चात् पश्चिमदिशि वा गच्छन् (स्वधया) स्वधारणशक्त्या (यासि) गच्छसि (शीभम्) क्षिप्रम्-निघ० २।१५। (नानारूपे) विरुद्धरूपे (अहनी) अहोरात्रे (कर्षि) करोषि (मायया) प्रज्ञया (तत्) तस्मात् कारणात् (आदित्य) हे आदीप्यमान परमेश्वर (महि) महत् (तत्) (महि) (श्रवः) कीर्तिः (यत्) (एकः) अद्वितीयः। असहायः (विश्वम्) (सर्वम्) (परि) अभितः (भूम) बहुत्वं संसारम् (जायसे) प्रादुर्भवसि ॥
इस भाष्य को एडिट करें