अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 37
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - पञ्चपदा विराड्जगती
सूक्तम् - अध्यात्म सूक्त
दि॒वस्पृ॒ष्ठे धाव॑मानं सुप॒र्णमदि॑त्याः पु॒त्रं ना॒थका॑म॒ उप॑ यामि भी॒तः। स नः॑ सूर्य॒ प्र ति॑र दी॒र्घमायु॒र्मा रि॑षाम सुम॒तौ ते॑ स्याम ॥
स्वर सहित पद पाठदि॒व: । पृ॒ष्ठे । धाव॑मानम् । सु॒ऽप॒र्णम् । अदि॑त्या: । पु॒त्रम् । ना॒थऽका॑म: । उप॑ । या॒मि॒ । भी॒त: । स: । न॒: । सू॒र्य॒ । प्र । ति॒र॒ । दी॒र्घम् । आयु॑: । मा । रि॒षा॒म॒ । सु॒ऽम॒तौ । ते॒ । स्या॒म॒ ॥२.३७॥
स्वर रहित मन्त्र
दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीतः। स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ॥
स्वर रहित पद पाठदिव: । पृष्ठे । धावमानम् । सुऽपर्णम् । अदित्या: । पुत्रम् । नाथऽकाम: । उप । यामि । भीत: । स: । न: । सूर्य । प्र । तिर । दीर्घम् । आयु: । मा । रिषाम । सुऽमतौ । ते । स्याम ॥२.३७॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 37
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३७−(दिवः) आकाशस्य (पृष्ठे) उपरिभागे (धावमानम्) शीघ्रं गच्छन्तम् (सुपर्णम्) सुपालकम् (अदित्याः) अदितिर्वाङ्नाम-निघ० १।११। अखण्डिताया देववाण्याः (पुत्रम्) पुवो ह्रस्वश्च। उ० ४।१६५। पूञ् शोधने−क्त्र। शोधकम् (नाथकामः) ईश्वरं कामयमानः (उप) आदरे (यामि) प्राप्नोमि (भीतः) भयं प्राप्तः (सः) स त्वम् (नः) (अस्मभ्यम्) (सूर्य) हे सर्वप्रेरक परमेश्वर (प्र तिर) प्रवर्धय (दीर्घम्) (आयुः) जीवनकालम् (मा रिषाम) मा रिष्यामहै। मा हिंस्यामहै (सुमतौ) कल्याणां बुद्धौ (ते) तव (स्याम) ॥
इस भाष्य को एडिट करें