अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 9
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
उत्के॒तुना॑ बृह॒ता दे॒व आग॒न्नपा॑वृ॒क्तमो॒ऽभि ज्योति॑रश्रैत्। दि॒व्यः सु॑प॒र्णः स वी॒रो व्यख्य॒ददि॑तेः पु॒त्रो भुव॑नानि॒ विश्वा॑ ॥
स्वर सहित पद पाठउत् । के॒तुना॑ । बृ॒ह॒ता । दे॒व: । आ । अ॒ग॒न् । अप॑ । अ॒वृ॒क् । तम॑: । अ॒भि । ज्योति॑: । अ॒श्रै॒त् । दि॒व्य: । सु॒ऽप॒र्ण: । स: । वी॒र: । वि । अ॒ख्य॒त् । अदि॑ते: । पु॒त्र: । भुव॑नानि । विश्वा॑ ॥2.९॥
स्वर रहित मन्त्र
उत्केतुना बृहता देव आगन्नपावृक्तमोऽभि ज्योतिरश्रैत्। दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा ॥
स्वर रहित पद पाठउत् । केतुना । बृहता । देव: । आ । अगन् । अप । अवृक् । तम: । अभि । ज्योति: । अश्रैत् । दिव्य: । सुऽपर्ण: । स: । वीर: । वि । अख्यत् । अदिते: । पुत्र: । भुवनानि । विश्वा ॥2.९॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(उत्) ऊर्ध्वः सन् (केतुना) प्रज्ञानेन (बृहता) महता (देवः) प्रकाशमानः सूर्यः (आ अगन्) आगतवान् (अप अवृक्) अपवर्जितवान् (तमः) अन्धकारम् (अभि) अभिगत्य (ज्योतिः) प्रकाशम् (अश्रैत्) श्रिञ् सेवायाम्-लुङि छान्दसं रूपम्। आश्रितवान् (दिव्यः) दिवि आकाशे भवः (सुपर्णः) शोभनपालनः (सः) प्रसिद्धः (वीरः) वि+ईर गतौ-अच्। विविधगतिः (व्यख्यत्) व्याख्यातानि प्रसिद्धानि कृतवान् (अदितेः) अखण्डितायाः प्रकृतेः (पुत्रः) पुत्रो यथा (भुवनानि) लोकान् (विश्वा) सर्वाणि ॥
इस भाष्य को एडिट करें