अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 44
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुष्पदा पुरःशाक्वरा भुरिग्जगती
सूक्तम् - अध्यात्म सूक्त
पृ॑थिवी॒प्रो म॑हि॒षो नाध॑मानस्य गा॒तुरद॑ब्धचक्षुः॒ परि॒ विश्वं॑ बभूव। विश्वं॑ सं॒पश्य॑न्त्सुवि॒दत्रो॒ यज॑त्र इ॒दं शृ॑णोतु॒ यद॒हं ब्रवी॑मि ॥
स्वर सहित पद पाठपृ॒थि॒वी॒ऽप्र: । म॒हि॒ष: । नाध॑मानस्य । गा॒तु: । अद॑ब्धऽचक्षु: । परि॑ । विश्व॑म् । ब॒भूव॑ । विश्व॑म् । स॒म्ऽपश्य॑न् । सु॒ऽवि॒दत्र॑: । यज॑त्र: । इ॒दम् । शृ॒णो॒तु॒ । यत् । अ॒हम् । ब्रवी॑मि ॥२.४४॥
स्वर रहित मन्त्र
पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि विश्वं बभूव। विश्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥
स्वर रहित पद पाठपृथिवीऽप्र: । महिष: । नाधमानस्य । गातु: । अदब्धऽचक्षु: । परि । विश्वम् । बभूव । विश्वम् । सम्ऽपश्यन् । सुऽविदत्र: । यजत्र: । इदम् । शृणोतु । यत् । अहम् । ब्रवीमि ॥२.४४॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 44
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४४−(पृथिवीप्रः) भूमिपूरकः (महिषः) महान् (नाधमानस्य) प्रार्थयमानस्य (गातुः) मार्गः (अदब्धचक्षुः) अहिंसितदृष्टिः। सर्वदर्शी (विश्वम्) सर्वम् (परिबभूव) आच्छादितवान् (विश्वम्) (सम्पश्यन्) सर्वथावलोकयन् (सुविदत्रः) सुविदेः कत्रन्। उ० ३।१०८। सु+विद्लृ लाभे-कत्रन्। महालाभप्रापकः (यजत्रः) अमिनक्षियजि०। उ० ३।१०५। यजतेः-अत्रन्। सर्वपूजनीयः (इदम्) (शृणोतु) आकर्णयतु (यत्) (अहम्) (ब्रवीमि) कथयामि ॥
इस भाष्य को एडिट करें