Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 28
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - अध्यात्म सूक्त

    अत॑न्द्रो या॒स्यन्ह॒रितो॒ यदास्था॒द्द्वे रू॒पे कृ॑णुते॒ रोच॑मानः। के॑तु॒मानु॒द्यन्त्सह॑मानो॒ रजां॑सि॒ विश्वा॑ आदित्य प्र॒वतो॒ वि भा॑सि ॥

    स्वर सहित पद पाठ

    अत॑न्द्र: । या॒स्यन् । ह॒रित॑: । यत् । आ॒ऽअस्था॑त् । द्वे इति॑ । रू॒पे इति॑ । कृ॒णु॒ते॒ । रोच॑मान: । के॒तु॒ऽमान् । उ॒त्ऽयन् । सह॑मान: । रजां॑सि। विश्वा॑: । आ॒द‍ि॒त्य॒: । प्र॒ऽवत॑:। वि । भा॒सि॒॥२.२८॥


    स्वर रहित मन्त्र

    अतन्द्रो यास्यन्हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः। केतुमानुद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥

    स्वर रहित पद पाठ

    अतन्द्र: । यास्यन् । हरित: । यत् । आऽअस्थात् । द्वे इति । रूपे इति । कृणुते । रोचमान: । केतुऽमान् । उत्ऽयन् । सहमान: । रजांसि। विश्वा: । आद‍ित्य: । प्रऽवत:। वि । भासि॥२.२८॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 28

    टिप्पणीः - २८−(अतन्द्रः) निरलसः परमेश्वरः (यास्यन्) यातुं गन्तुमिच्छन् (हरितः) आकर्षिकाः दिशाः (यत्) यदा (आस्थात्) लडर्थे लुङ्। आगत्य तिष्ठति (द्वे रूपे) जडचेतनरूपे जगती (कृणुते) सृजति (रोचमानः) प्रकाशमानः (केतुमान्) प्रज्ञावान् (उद्यन्) ऊर्ध्वो गच्छन् (सहमानः) पराजयन् (रजांसि) लोकान् (विश्वाः) सर्वाः (आदित्य) हे अविनाशिन् परमेश्वर (प्रवतः) प्रकृष्टगतिक्रियाः (वि) विविधम् (भासि) भासयसि। दीपयसि ॥

    इस भाष्य को एडिट करें
    Top