Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 35
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - अध्यात्म सूक्त

    चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः। आप्रा॒द्द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥

    स्वर सहित पद पाठ

    चि॒त्रम् । दे॒वाना॑म् । उत् । अ॒गा॒त् । अनी॑कम् । चक्षु॑: । मि॒त्रस्य॑ । वरु॑णस्य । अ॒ग्ने: । आ । अ॒प्रा॒त् । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । सूर्य॑: । आ॒त्मा । जग॑त: । त॒स्थुष॑: । च॒ ॥२.३५॥


    स्वर रहित मन्त्र

    चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः। आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥

    स्वर रहित पद पाठ

    चित्रम् । देवानाम् । उत् । अगात् । अनीकम् । चक्षु: । मित्रस्य । वरुणस्य । अग्ने: । आ । अप्रात् । द्यावापृथिवी इति । अन्तरिक्षम् । सूर्य: । आत्मा । जगत: । तस्थुष: । च ॥२.३५॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 35

    टिप्पणीः - ३५−(चित्रम्) अद्भुतस्वरूपम् (देवानाम्) गतिमतां लोकानाम् (उत्) सर्वोपरि (अगात्) व्यापत् (अनीकम्) म० ३४। जीवनप्रदम् (चक्षुः) दर्शकं ब्रह्म (मित्रस्य) सूर्यस्य प्राणस्य (वरुणस्य) चन्द्रस्य। जलस्य अपानस्य (अग्नेः) विद्युतः (आ) समन्तात् (अप्रात्) प्रा पूरणे-लङ्। पूरितवान् (द्यावापृथिवी) प्रकाशमानाप्रकाशमानलोकौ (अन्तरिक्षम्) (सूर्यः) सर्वप्रेरकः परमेश्वरः (आत्मा) अतति सततं गच्छति व्याप्नोतीति। अन्तर्यामी परमात्मा (जगतः) जङ्गमस्य (तस्थुषः) ष्ठा गतिनिवृत्तौ-क्वसु। स्थावरस्य (च) ॥

    इस भाष्य को एडिट करें
    Top