अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 36
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
उ॒च्चा पत॑न्तमरु॒णं सु॑प॒र्णं मध्ये॑ दि॒वस्त॒रणिं॒ भ्राज॑मानम्। पश्या॑म त्वा सवि॒तारं॒ यमा॒हुरज॑स्रं॒ ज्योति॒र्यद॑विन्द॒दत्त्रिः॑ ॥
स्वर सहित पद पाठउ॒च्चा । पत॑न्तम् । अ॒रु॒णम् । सु॒ऽप॒र्णम् । मध्ये॑ । दि॒व: । त॒रणि॑म् । भ्राज॑मानम् । पश्या॑म । त्वा॒ । स॒वि॒तार॑म् । यम् । आ॒हु: । अज॑स्रम् । ज्योति॑: । यत् । अवि॑न्दत् । अत्त्रि॑: ॥२.३६॥
स्वर रहित मन्त्र
उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम्। पश्याम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः ॥
स्वर रहित पद पाठउच्चा । पतन्तम् । अरुणम् । सुऽपर्णम् । मध्ये । दिव: । तरणिम् । भ्राजमानम् । पश्याम । त्वा । सवितारम् । यम् । आहु: । अजस्रम् । ज्योति: । यत् । अविन्दत् । अत्त्रि: ॥२.३६॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 36
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३६−(उच्चा) उच्चैः (पतन्तम्) ऐश्वर्यं प्राप्नुवन्तम् (अरुणम्) अर्त्तेश्च। उ० ३।६०। ऋ गतौ-उनन्, चित्। सर्वव्यापकम् (सुपर्णम्) शोभनं पर्णं पालनं यस्मात् तम् (मध्ये) (दिवः) प्रत्येकव्यवहारस्य (तरणिम्) तारकम् (भ्राजमानम्) दीप्यमानम् (पश्याम) अवलोकयाम (त्वा) (सवितारम्) सर्वप्रेरकम् (यम्) (आहुः) कथयन्ति विद्वांसः (अजस्रम्) निरन्तरम् (ज्योतिः) तेजः (यत्) (अविन्दत्) अलभत (अत्त्रिः) म० ४। निरन्तरज्ञानी योगिजनः ॥
इस भाष्य को एडिट करें