Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 39
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    रोहि॑तः का॒लो अ॑भव॒द्रोहि॒तोऽग्रे॑ प्र॒जाप॑तिः। रोहि॑तो य॒ज्ञानां॒ मुखं॒ रोहि॑तः॒ स्वराभ॑रत् ॥

    स्वर सहित पद पाठ

    रोहि॑त: । का॒ल: । अ॒भ॒व॒त् । रोहि॑त: । अग्रे॑ । प्र॒जाऽप॑ति: । रोहि॑त: । य॒ज्ञाना॑म् । मुख॑म् । रोहि॑त: । स्व᳡: । आ । अ॒भ॒र॒त् ॥२.३९॥


    स्वर रहित मन्त्र

    रोहितः कालो अभवद्रोहितोऽग्रे प्रजापतिः। रोहितो यज्ञानां मुखं रोहितः स्वराभरत् ॥

    स्वर रहित पद पाठ

    रोहित: । काल: । अभवत् । रोहित: । अग्रे । प्रजाऽपति: । रोहित: । यज्ञानाम् । मुखम् । रोहित: । स्व: । आ । अभरत् ॥२.३९॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 39

    टिप्पणीः - ३९−(रोहितः) अ० १३।१।१। सर्वोत्पादकः परमेश्वरः (कालः) काल-अर्शआद्यच्। कालवान्। त्रिकालस्वामी (अभवत्) (रोहितः) (अग्रे) सृष्ट्यादौ (प्रजापतिः) प्रजानां सृष्टपदार्थानां पालकः (रोहितः) (यज्ञानाम्) संयोगवियोगव्यवहाराणाम् (मुखम्) मुख्यः। प्रधानः (रोहितः) (स्वः) सुखम् (आ) समन्तात् (अभरत्) धारितवान् ॥

    इस भाष्य को एडिट करें
    Top