Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 10
    सूक्त - प्रियमेधः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - सूक्त-९२

    यो व्यतीँ॒रफा॑णय॒त्सुयु॑क्ताँ॒ उप॑ दा॒शुषे॑। त॒क्वो ने॒ता तदिद्वपु॑रुप॒मा यो अमु॑च्यत ॥

    स्वर सहित पद पाठ

    य: । व्यती॑न् । अफा॑णयत् । सुऽयु॑क्तान् । उप॑ । दा॒शुषे॑ ॥ त॒क्व: । ने॒ना । तत् । इत् । वपु॑: । उ॒प॒ऽमा । य: । अमु॑च्यत ॥९२.१०॥


    स्वर रहित मन्त्र

    यो व्यतीँरफाणयत्सुयुक्ताँ उप दाशुषे। तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥

    स्वर रहित पद पाठ

    य: । व्यतीन् । अफाणयत् । सुऽयुक्तान् । उप । दाशुषे ॥ तक्व: । नेना । तत् । इत् । वपु: । उपऽमा । य: । अमुच्यत ॥९२.१०॥

    अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 10

    टिप्पणीः - १०−(यः) परमात्मा (व्यतीन्) अत सातत्यगमने-इन्। विविधसदागमनशीलान् (अफाणयत्) फण गतौ अनायासेनोत्पत्तौ च-णिच्। फणतिर्गतिकर्मा-निघ० २।१४। अनायासेनोत्पादितवान् (सुयुक्तान्) सुयोग्यान् पदार्थान् (उप) पूजायाम् (दाशुषे) आत्मदानिने। उपासकाय (तक्वः) कॄगॄशॄदॄभ्यो वः। उ० १।१। तकतिर्गतिकर्मा-निघ० २।१४। वप्रत्ययः। व्यापकः (नेता) (तत्) (इत्) एव (वपुः) अर्तिपॄवपि०। उ० २।११७। डुवप बीजतन्तुसन्ताने-उसि। बीजोत्पादकं ब्रह्म (उपमा) विभक्तेराकारः। उपमे अन्तिकनाम-निघ० २।१६। उपमं निकटस्थम्। उपासकम् (यः) परमात्मा (अमुच्यत) मुक्तवान् दुःखेभ्यः ॥

    इस भाष्य को एडिट करें
    Top