Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 4
    सूक्त - प्रियमेधः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - सूक्त-९२

    उद्यद्ब्र॒ध्नस्य॑ वि॒ष्टपं॑ गृ॒हमिन्द्र॑श्च॒ गन्व॑हि। मध्वः॑ पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्युः॑ प॒दे ॥

    स्वर सहित पद पाठ

    उत् ।यत् । ब्र॒ध्नस्य॑ । वि॒ष्टप॑म् । गृ॒हम् । इन्द्र॑: । च॒ । गन्व॑हि ॥ मध्व॑: । पी॒त्वा । स॒चे॒व॒हि॒ । त्रि । स॒प्त । सख्यु॑: । प0952गदे ॥९२.४॥


    स्वर रहित मन्त्र

    उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि। मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥

    स्वर रहित पद पाठ

    उत् ।यत् । ब्रध्नस्य । विष्टपम् । गृहम् । इन्द्र: । च । गन्वहि ॥ मध्व: । पीत्वा । सचेवहि । त्रि । सप्त । सख्यु: । प0952गदे ॥९२.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 4

    टिप्पणीः - ४−(उत्) उच्चैः (यत्) यदा (ब्रध्नस्य) अ० ७।२२।२। नियामकस्य। महतः परमेश्वरस्य (विष्टपम्) अ० १०।१०।३१। आश्रयम् (गृहम्) शरणम् (इन्द्रः) परमैश्वर्यवानाचार्यः (च) अहं ब्रह्मचारी च (गन्वहि) आवां प्राप्नुयाम (मध्वः) मधुनः। यथार्थज्ञानस्य (पीत्वा) पानं कृत्वा। अनुभूय (सचेवहि) षच समवाये सेके च। सिक्तौ प्रवृद्धौ भवेव (त्रिः) त्रिवारं सत्त्वरजस्तमोगुणैः (सप्त) भूर्, भुवः, स्वः, महः, जनः, तपः, सत्यम्, इति सप्तावस्थाविशेषसम्बन्धिनः संसारस्य (सख्युः) सर्वमित्रस्य परमेश्वरस्य (पदे) प्राप्तव्ये मोक्षसुखे ॥

    इस भाष्य को एडिट करें
    Top