Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 8
    सूक्त - प्रियमेधः देवता - विश्वेदेवाः, वरुणः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-९२

    अपा॒दिन्द्रो॒ अपा॑द॒ग्निर्विश्वे॑ दे॒वा अ॑मत्सत। वरु॑ण॒ इदि॒ह क्ष॑य॒त्तमापो॑ अ॒भ्यनूषत व॒त्सं सं॒शिश्व॑रीरिव ॥

    स्वर सहित पद पाठ

    अपा॑त् । इन्द्र॑: । अपा॑त् । अ॒ग्नि: । विश्वे॑ । दे॒वा: । अ॒म॒त्स॒त॒ ॥ वरु॑ण: । इत् । इह । क्ष॒य॒त् । तम् । आप॑: । अ॒भि । अ॒नू॒ष॒त॒ । व॒त्सम् । सं॒शिश्व॑री:ऽइव ॥९२.८॥


    स्वर रहित मन्त्र

    अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत। वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥

    स्वर रहित पद पाठ

    अपात् । इन्द्र: । अपात् । अग्नि: । विश्वे । देवा: । अमत्सत ॥ वरुण: । इत् । इह । क्षयत् । तम् । आप: । अभि । अनूषत । वत्सम् । संशिश्वरी:ऽइव ॥९२.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 8

    टिप्पणीः - ८−(अपात्) पा पाने-लुङ्। पीतवान् पृथिव्यादिजलम् (इन्द्रः) प्रतापी सूर्यः (अपात्) पीतवान् काष्ठहव्यादिरसम् (अग्निः) प्रसिद्धः (विश्वे) (देवाः) व्यवहारिणः प्राणिनः (अमत्सत) मदी हर्षे। तृप्ता अभवन् (वरुणः) श्रेष्ठः परमात्मा (इत्) एव (इह) अस्मिन् सर्वस्मिन् कर्मणि (क्षयत्) क्षि ऐश्वर्ये। समर्थोऽभवत् (तम्) वरुणम् (आपः) प्राप्ताः प्रजाः (अभि) (अनूषत) अ० २०।१७।१। अस्तुवन् (वत्सम्) गोशिशुम् (संशिश्वरीः) स्नामदिपद्यर्त्ति०। उ० ४।११३। सम्+शश प्लुतगतौ-वनिप्। अकारस्य इकारः। वनो र च। पा० ४।१।७। ङीब्रेफौ। संशिश्वर्यः संगच्छमाना गावः (इव) यथा ॥

    इस भाष्य को एडिट करें
    Top