अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 15
अनु॑ प्र॒त्नस्यौक॑सः प्रि॒यमे॑धास एषाम्। पूर्वा॒मनु॒ प्रय॑तिं वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आशत ॥
स्वर सहित पद पाठअनु॑ । प्र॒त्नस्य॑ । ओक॑स: । प्रि॒यऽमे॑धास: । ए॒षा॒म् ॥ पूर्वा॑म् । अनु॑ । प्रऽय॑तिम् । वृ॒क्तऽब॑र्हिष । हि॒तऽप्र॑यस: । आ॒श॒त॒ ॥९२.१५॥
स्वर रहित मन्त्र
अनु प्रत्नस्यौकसः प्रियमेधास एषाम्। पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥
स्वर रहित पद पाठअनु । प्रत्नस्य । ओकस: । प्रियऽमेधास: । एषाम् ॥ पूर्वाम् । अनु । प्रऽयतिम् । वृक्तऽबर्हिष । हितऽप्रयस: । आशत ॥९२.१५॥
अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(अनु) अनुकृत्य (प्रत्नस्य) पुराणस्य (ओकसः) आश्रयस्य परमेश्वरस्य (प्रियमेधासः) हितकरमेधायुक्ताः (एषाम्) मनुष्याणां मध्ये (पूर्वाम्) प्रथमाम् (अनु) निरन्तरम् (प्रयतिम्) यती प्रयत्ने-इन्। प्रयत्नरीतिम् (वृक्तबर्हिषः) अ० २०।२।१। त्यक्तहिंसाः (हितप्रयसः) हितकरान्नयुक्ताः (आशत) प्राप्तवन्तः ॥
इस भाष्य को एडिट करें