Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 18
    सूक्त - पुरुहन्मा देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-९२

    नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम्। इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वोजसम् ॥

    स्वर सहित पद पाठ

    नकि॑: । तम् । कर्म॑णा । न॒श॒त् । य: । च॒कार॑ । स॒दाऽवृ॑धम् ॥ इन्द्र॑म् । न । य॒ज्ञै: । वि॒श्वऽगू॑र्तम् । ऋभ्व॑सम् । अधृ॑ष्टम् । धृ॒ष्णुऽओ॑जसम् ॥९२.१८॥


    स्वर रहित मन्त्र

    नकिष्टं कर्मणा नशद्यश्चकार सदावृधम्। इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥

    स्वर रहित पद पाठ

    नकि: । तम् । कर्मणा । नशत् । य: । चकार । सदाऽवृधम् ॥ इन्द्रम् । न । यज्ञै: । विश्वऽगूर्तम् । ऋभ्वसम् । अधृष्टम् । धृष्णुऽओजसम् ॥९२.१८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 18

    टिप्पणीः - मन्त्र १८, १९ सामवेद में भी है-उ० ४।२।८, मन्त्र १८-साम० पू० ३।६।१ ॥ १८−(नकिः) न कश्चित् (तम्) प्रसिद्धम् (कर्मणा) (नशत्) प्राप्नुयात् (यः) परमेश्वरः (चकार) रचितवान् (सदावृधम्) सदावर्धकं व्यवहारम् (इन्द्रम्) (न) निषेधे (यज्ञैः) दानैः (विश्वगूर्तम्) अ० २०।३।९। विश्वं सर्वं जगत् गूर्णम् उद्यतम् उद्यमे कृतं येन तम् (ऋभ्वसम्) ऋभुर्मेधाविनाम-निघ० ३।१। अस ग्रहणे-अच्। ऋभूणां मेधाविनां ग्रहीतारम् (अधृष्टम्) अजेयम् (धृष्ण्वोजसम्) धर्षकबलम्। निर्भयपराक्रमयुक्तम् ॥

    इस भाष्य को एडिट करें
    Top