Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 9
    सूक्त - प्रियमेधः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - सूक्त-९२

    सु॑दे॒वो अ॑सि वरुण॒ यस्य॑ ते स॒प्त सिन्ध॑वः। अ॑नु॒क्षर॑न्ति का॒कुदं॑ सू॒र्यं सुषि॒रामि॑व ॥

    स्वर सहित पद पाठ

    सु॒ऽदे॒व: । अ॒सि॒ । व॒रु॒ण॒ । यस्य॑ । ते॒ । स॒प्त । सिन्ध॑व: ॥ अ॒नु॒ऽक्षर॑न्ति । का॒कुद॑म् । सू॒र्म्य॑म्‌ । स॒सु॒विराम्ऽइ॑व ॥९२.९॥


    स्वर रहित मन्त्र

    सुदेवो असि वरुण यस्य ते सप्त सिन्धवः। अनुक्षरन्ति काकुदं सूर्यं सुषिरामिव ॥

    स्वर रहित पद पाठ

    सुऽदेव: । असि । वरुण । यस्य । ते । सप्त । सिन्धव: ॥ अनुऽक्षरन्ति । काकुदम् । सूर्म्यम्‌ । ससुविराम्ऽइव ॥९२.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 9

    टिप्पणीः - ९−(सुदेवः) कल्याणदेवः। अतिप्रकाशमानः। महाधनी (असि) (वरुण) हे श्रेष्ठ परमात्मन् (यस्य) (ते) तव (सप्त) सप्तसंख्याकाः (सिन्धवः) स्यन्दमानाः समुद्राः। भूर्भुवराद्यवस्थाविशेषयुक्ताः सर्वे लोकाः (अनुक्षरन्ति) निरन्तरं सिञ्चन्ति (काकुदम्) तालु-निरु० ।२६। (सूर्म्यम्) कल्याणोर्मिम्। सुवेगवतीम् (सुषिराम्) इषिमदिमुदि०। उ० १।१। शुष शोषणे-किरच्, टाप्, शस्य सः। जलनिःसरणच्छिद्रम्। स्रोतः (इव) यथा ॥

    इस भाष्य को एडिट करें
    Top