अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 13
आ तू सु॑शिप्र दम्पते॒ रथं॑ तिष्ठा हिर॒ण्यय॑म्। अध॑ द्यु॒क्षं स॑चेवहि स॒हस्र॑पादमरु॒षं स्व॑स्ति॒गाम॑ने॒हस॑म् ॥
स्वर सहित पद पाठआ । तु । सु॒ऽशि॒प्र॒ । इ॒म्ऽप॒ते॒ । रथ॑म् । ति॒ष्ठ॒ । हि॒र॒ण्यय॑म् ॥ अध॑ । द्यु॒क्षम् । स॒चे॒व॒हि॒ । स॒हस्र॑ऽपादम् । अ॒रु॒षम् । स्व॒स्ति॒ऽगाम् । अ॒ने॒हस॑म् ॥९२.१३॥
स्वर रहित मन्त्र
आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम्। अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् ॥
स्वर रहित पद पाठआ । तु । सुऽशिप्र । इम्ऽपते । रथम् । तिष्ठ । हिरण्ययम् ॥ अध । द्युक्षम् । सचेवहि । सहस्रऽपादम् । अरुषम् । स्वस्तिऽगाम् । अनेहसम् ॥९२.१३॥
अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(आ तिष्ठ) आरोह (तु) क्षिप्रम् (सुशिप्र) अ० २०।७१।९। हे बहुज्ञानयुक्त ब्रह्मचारिन् (दम्पते) दमु उपशमे-क्विप्। हे दमनरक्षक जितेन्द्रिय (रथम्) (हिरण्ययम्) तेजोमयज्ञानरूपम् (अध) अनन्तरम् (द्युक्षम्) अ० २०।९।२। दिवु व्यवहारे-डिवि+क्षि ऐश्वर्ये-ड। व्यवहारेषु समर्थम् (सचेवहि) आवामाचार्यब्रह्मचारिणौ संगच्छेवहि। संगती भवेव (सहस्रपादम्) अ० ७।४१।२। असीमगतिशक्तियुक्तम् (अरुषम्) अर्तिपॄवपि०।२।११७। ऋ गतौ-उसि। व्यापकम् (स्वस्तिगाम्) आनन्दस्य गमयितारं प्रापकम् (अनेहसम्) निर्दोषं परमात्मानम् ॥
इस भाष्य को एडिट करें