Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 12
    सूक्त - प्रियमेधः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - सूक्त-९२

    अ॑र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न्नवं॒ रथ॑म्। स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतु॑म् ॥

    स्वर सहित पद पाठ

    अ॒र्भ॒क: । न । कु॒मा॒र॒क: । अधि॑ । ति॒ष्ठ॒त् । नव॑म् । रथ॑म् ॥ स: । प॒क्ष॒त् । म॒हि॒षम् । मृ॒गम् । पि॒त्रे । मा॒त्रे । वि॒भुऽक्रतु॑म् ॥९२.१२॥


    स्वर रहित मन्त्र

    अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम्। स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥

    स्वर रहित पद पाठ

    अर्भक: । न । कुमारक: । अधि । तिष्ठत् । नवम् । रथम् ॥ स: । पक्षत् । महिषम् । मृगम् । पित्रे । मात्रे । विभुऽक्रतुम् ॥९२.१२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 12

    टिप्पणीः - १२−(अर्भकः) बालकः (न) यथा (कुमारकः) कुमार क्रीडायाम्-वुन्। क्रीडकः (अधितिष्ठत्) आरोहेत् (नवम्) नवीनम् (रथम्) यानम् (सः) जिज्ञासुः (पक्षत्) परिगृह्णीयात् (महिषम्) महान्तम् (मृगम्) मृग्यम्। अन्वेषणीयम् (पित्रे) पितृप्रसादाय (मात्रे) मातृप्रसादाय (विभुक्रतुम्) व्यापककर्माणं परमात्मानम् ॥

    इस भाष्य को एडिट करें
    Top