Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 19
    सूक्त - पुरुहन्मा देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-९२

    अषा॑ढमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रयः॑। सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्यावः॒ क्षामो॑ अनोनवुः ॥

    स्वर सहित पद पाठ

    अषा॑ल्हम् । उ॒ग्रम् । पृत॑नासु । स॒स॒हिम् । यस्मि॑न् । म॒ही: । उ॒रु॒ऽज्रय॑: ॥ सम् । धे॒नव॑: । जाय॑माने । अ॒नो॒न॒वु॒: । द्याव॑: । क्षाम॑: । अ॒नो॒न॒वु॒: ॥९२.१९॥


    स्वर रहित मन्त्र

    अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः। सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥

    स्वर रहित पद पाठ

    अषाल्हम् । उग्रम् । पृतनासु । ससहिम् । यस्मिन् । मही: । उरुऽज्रय: ॥ सम् । धेनव: । जायमाने । अनोनवु: । द्याव: । क्षाम: । अनोनवु: ॥९२.१९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 19

    टिप्पणीः - १९−(अषाढम्) षह मर्षणे अभिभवे-क्त, ओकारस्य आकारः। असोढम्। अनभिभूतम् (उग्रम्) तेजस्विनम् (पृतनासु) सङ्ग्रामेषु (सासहिम्) अ० ३।१८।। अभिभवितारम्। विजयकारकम् (यस्मिन्) परमात्मनि (महीः) पृथिव्यः (उरुज्रयः) ज्रयतिर्गतिकर्मा-निघ० २।१४। वातेर्डिच्च। उ० ४।१३४। ज्रि गतौ-इण्, डित्। बहुगतिशीलाः (सम्) एकीभूय (धेनवः) प्रीणयित्र्यो वाचः (जायमाने) प्रकटीभूयमाने (अनोनवुः) णु स्तुतौ-यङ्लुकि लङ्। भृशमस्तुवन् (द्यावः) सूर्य्याः (क्षामः) पृथिव्यः (अनोनवुः) ॥

    इस भाष्य को एडिट करें
    Top