अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 17
इन्द्रं॒ तं शु॑म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑। हस्ता॑य॒ वज्रः॒ प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्यः॑ ॥
स्वर सहित पद पाठइन्द्र॑म् । तम् । शु॒म्भ॒ । पु॒रु॒ऽह॒न्म॒न् । अव॑से । यस्य॑ । द्वि॒ता । वि॒ऽध॒र्तरि॑ ॥ हस्ता॑य । वज्र॑: । प्रति॑ । धा॒यि॒ । द॒र्शत: । म॒ह: । दि॒वे । न । सूर्य॑: ॥९२.१७॥
स्वर रहित मन्त्र
इन्द्रं तं शुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्तरि। हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥
स्वर रहित पद पाठइन्द्रम् । तम् । शुम्भ । पुरुऽहन्मन् । अवसे । यस्य । द्विता । विऽधर्तरि ॥ हस्ताय । वज्र: । प्रति । धायि । दर्शत: । मह: । दिवे । न । सूर्य: ॥९२.१७॥
अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(इन्द्रम्) परमेश्वरम् (तम्) (शुम्भ) शुम्भ हिंसाभाषणभासनेषु। भाषस्व। वर्णय (पुरुहन्मन्) सर्वधातुभ्यो मनिन्। उ० ४।१४। पुरु+हन हिंसागत्योः-मनिन्। पुरु बहु हन्ति गच्छति जानातीति पुरुहन्मा तत्सम्बुद्धौ। हे बहुज्ञानिन्। ऋषे (अवसे) रक्षणाय (यस्य) परमेश्वरस्य (द्विता) द्वित्वम्। निग्रहानुग्रहरूपं गुणद्वयम् (विधर्तरि) मेधाविनि जने-निघ० ३।१। (हस्ताय) अस्माकं बाहुबलाय (वज्रः) दण्डसामर्थ्यम् (प्रति) प्रत्यक्षम् (धायि) अधारि (दर्शतः) दर्शनीयः (महः) मह-अच्। महान् (दिवे) प्रकाशाय (न) यथा (सूर्यः) ॥
इस भाष्य को एडिट करें