Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 6
    सूक्त - प्रियमेधः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - सूक्त-९२

    अव॑ स्वराति॒ गर्ग॑रो गो॒धा परि॑ सनिष्वणत्। पिङ्गा॒ परि॑ चनिष्कद॒दिन्द्रा॑य॒ ब्रह्मोद्य॑तम् ॥

    स्वर सहित पद पाठ

    अव॑ । स्वा॒रा॒ति॒ । गर्ग॑र: । गो॒धा । परि॑ । स॒नि॒व॒न॒त् ॥ पिङ्गा॑ । परि॑ । च॒नि॒स्क॒द॒त् । इन्द्रा॑य । ब्रह्म॑ । उत्ऽय॑तम् ॥९२.६॥


    स्वर रहित मन्त्र

    अव स्वराति गर्गरो गोधा परि सनिष्वणत्। पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥

    स्वर रहित पद पाठ

    अव । स्वाराति । गर्गर: । गोधा । परि । सनिवनत् ॥ पिङ्गा । परि । चनिस्कदत् । इन्द्राय । ब्रह्म । उत्ऽयतम् ॥९२.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 6

    टिप्पणीः - ६−(अव स्वराति) निश्चयेन शब्दयेत् (गर्गरः) अ० ४।१।१२। गॄ शब्दे-गप्रत्ययः+रा दाने-कप्रत्ययः। गर्गरस्य कलशस्य ध्वनियुक्तो वाद्यविशेषः (गोधा) अ० ४।३।६। गुध परिवेष्टने-घञ् टाप्। वीणादिवाद्यविशेषः (परि) सर्वतः (सनिष्वणत्) स्वन शब्दे, यङ्लुकि लेट्। भृशं ध्वनिं कुर्यात् (पिङ्गा) अ० ८।६।६। पिजि बले दीप्तौ च-अच्, कुत्वम्। दृढा धनुर्ज्या (परि) (चनिष्कदत्) स्कन्दिर् गतिशोषणयोः-यङ्लुकि लेट्। गतिं कुर्यात् टङ्कारयेत् (इन्द्राय) परमैश्वर्यवते परमात्मने (ब्रह्म) वेदज्ञानम् (उद्यतम्) ऊर्ध्वीकृतम् ॥

    इस भाष्य को एडिट करें
    Top