अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 8
इ॒ह प्र ब्रू॑हि यत॒मः सो अ॑ग्ने यातु॒धानो॒ य इ॒दं कृ॑णोति। तमा र॑भस्व स॒मिधा॑ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम् ॥
स्वर सहित पद पाठइ॒ह । प्र । ब्रू॒हि॒ । य॒त॒म: । स: । अ॒ग्ने॒ । या॒तु॒ऽधान॑: । य: । इ॒दम् । कृ॒णोति॑ । तम् । आ । र॒भ॒स्व॒ । स॒म्ऽइधा॑ । य॒वि॒ष्ठ॒ । नृ॒ऽचक्ष॑स: । चक्षु॑षे । र॒न्ध॒य॒ ।ए॒न॒म् ॥३.८॥
स्वर रहित मन्त्र
इह प्र ब्रूहि यतमः सो अग्ने यातुधानो य इदं कृणोति। तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् ॥
स्वर रहित पद पाठइह । प्र । ब्रूहि । यतम: । स: । अग्ने । यातुऽधान: । य: । इदम् । कृणोति । तम् । आ । रभस्व । सम्ऽइधा । यविष्ठ । नृऽचक्षस: । चक्षुषे । रन्धय ।एनम् ॥३.८॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(इह) अस्मिन् समाजे (प्र ब्रूहि) विज्ञापय (यतमः) तेषां मध्ये यः कश्चित् (सः) (अग्ने) अग्निवत्तेजस्विन् राजन् (यातुधानः) (यः) (इदम्) दुष्कर्म (कृणोति) करोति (तम्) पापिनम् (आ रभस्व) निगृहाण (समिधा) स्वतेजसा (यविष्ठ) हे युवतम बलिष्ठ (नृचक्षसः) मनुष्याणां द्रष्टुः (चक्षुषे) दर्शनाय (रन्धय) अ० ४।२२।१। वशीकुरु (एनम्) दुष्टम् ॥
इस भाष्य को एडिट करें