अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 19
त्वं नो॑ अग्ने अध॒रादु॑द॒क्तस्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त्। प्रति॒ त्ये ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहन्तु ॥
स्वर सहित पद पाठत्वम् । न॒: । अ॒ग्ने॒ । अ॒ध॒रात् । उ॒द॒क्त: । त्वम् । प॒श्चात् । उ॒त । र॒क्ष॒ । पु॒रस्ता॑त् । प्रति॑ । त्ये । ते॒ । अ॒जरा॑स: । तपि॑ष्ठा: । अ॒घऽशं॑सम् । शोशु॑चत: । द॒ह॒न्तु॒ ॥३.१९॥
स्वर रहित मन्त्र
त्वं नो अग्ने अधरादुदक्तस्त्वं पश्चादुत रक्षा पुरस्तात्। प्रति त्ये ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥
स्वर रहित पद पाठत्वम् । न: । अग्ने । अधरात् । उदक्त: । त्वम् । पश्चात् । उत । रक्ष । पुरस्तात् । प्रति । त्ये । ते । अजरास: । तपिष्ठा: । अघऽशंसम् । शोशुचत: । दहन्तु ॥३.१९॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 19
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १९−(त्वम्) (नः) अस्मान् (अग्ने) अग्निवत् तेजस्विन् राजन् (अधरात्) अधोदेशात् (उदक्तः) उदक्-तसिल्। उदग्देशात्। उपरिस्थानात् (त्वम्) (पश्चात्) (उत) अपि च (रक्ष) (पुरस्तात्) अग्रदेशात् (प्रति) प्रतिकूलम् (त्ये) ते प्रसिद्धाः (ते) तव (अजरासः) अजराः। सुदृढाः (तपिष्ठाः) तापयितृतमाः (अघशंसम्) अ० ४।२१।७। अनिष्टचिन्तकम् (शोशुचतः) म० १३। नाभ्यस्ताच्छतुः। पा० ७।१।७८। नुम्निषेधः। भृशं दीप्यमाना वज्राः (दहन्तु) भस्मसात् कुर्वन्तु ॥
इस भाष्य को एडिट करें