अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 23
वि॒षेण॑ भङ्गु॒राव॑तः॒ प्रति॑ स्म र॒क्षसो॑ जहि। अग्ने॑ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिर॒र्चिभिः॑ ॥
स्वर सहित पद पाठवि॒षेण॑ । भ॒ङ्गु॒रऽव॑त: । प्रति॑ । स्म॒ । र॒क्षस॑: । ज॒हि॒ । अग्ने॑। ति॒ग्मेन॑ । शो॒चिषा॑ । तपु॑:ऽअग्राभि: । अ॒र्चिऽभि॑: ॥३.२३॥
स्वर रहित मन्त्र
विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि। अग्ने तिग्मेन शोचिषा तपुरग्राभिरर्चिभिः ॥
स्वर रहित पद पाठविषेण । भङ्गुरऽवत: । प्रति । स्म । रक्षस: । जहि । अग्ने। तिग्मेन । शोचिषा । तपु:ऽअग्राभि: । अर्चिऽभि: ॥३.२३॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३−(विषेण) गरलेन स्वव्यापनेन वा (भङ्गुरावतः) अ० ७।७१।१। नाशकर्मयुक्तान् (प्रति) प्रतिकूलम् (स्म) अवश्यम् (रक्षसः) पुंल्लिङ्गत्वं छान्दसम्। रक्षांसि (जहि) नाशय (अग्ने) (तिग्मेन) तीक्ष्णेन (शोचिषा) तेजसा (तपुरग्राभिः) अर्तिपॄवपि०। उ० २।११७। तप दाहे-उसि। तापकशिखायुक्ताभिः (अर्चिभिः) ज्वालाभिः ॥
इस भाष्य को एडिट करें