Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 13
    सूक्त - चातनः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न्परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि। परा॒र्चिषा॒ मूर॑देवाञ्छृणीहि॒ परा॑सु॒तृपः॒ शोशु॑चतः शृणीहि ॥

    स्वर सहित पद पाठ

    परा॑ । शृ॒णी॒हि॒ । तप॑सा । या॒तु॒ऽधाना॑न् । परा॑ । अ॒ग्ने॒ । रक्ष॑: । हर॑सा । शृ॒णी॒हि॒ । परा॑ । अ॒र्चिषा॑ । मूर॑ऽदेवान् । शृ॒णी॒हि॒ । परा॑ । अ॒सु॒ऽतृप॑: । शोशु॑चत: । शृ॒णी॒हि॒ ॥३.१३॥


    स्वर रहित मन्त्र

    परा शृणीहि तपसा यातुधानान्पराग्ने रक्षो हरसा शृणीहि। परार्चिषा मूरदेवाञ्छृणीहि परासुतृपः शोशुचतः शृणीहि ॥

    स्वर रहित पद पाठ

    परा । शृणीहि । तपसा । यातुऽधानान् । परा । अग्ने । रक्ष: । हरसा । शृणीहि । परा । अर्चिषा । मूरऽदेवान् । शृणीहि । परा । असुऽतृप: । शोशुचत: । शृणीहि ॥३.१३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 13

    टिप्पणीः - १३−(परा शृणीहि) सर्वथा विनाशय (तपसा) तापकेन तेजसा। ऐश्वर्येण। प्रतापेन (यातुधानान्) दुःखदायकान् (अग्ने) अग्निवत्तेजस्विन् राजन् (रक्षः) बहुवचनस्यैकवचनम्। रक्षांसि। रोगान् दुष्टप्राणिनो वा (हरसा) बलेन (परा शृणीहि) विमर्दय (अर्चिषा) तेजसा (मूरदेवान्) मन्त्र २। निर्बुद्धिव्यवहारयुक्तान् (असुतृपः) असुभिः परप्राणैरात्मानं तर्पयन्तः प्राणिनः (शोशुचतः) शुच दीप्तौ यङ्लुकि छान्दसः शतृ। शोशुचानान् भृशं देदीप्यमानान् (परा शृणीहि) चूर्णीकुरु ॥

    इस भाष्य को एडिट करें
    Top