अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 15
सूक्त - चातनः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
यः पौरु॑षेयेण क्र॒विषा॑ सम॒ङ्क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धानः॑। यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥
स्वर सहित पद पाठय: । पौरु॑षेयेण । क्र॒विषा॑ । स॒म्ऽअ॒ङ्क्ते । य: । अश्व्ये॑न । प॒शुना॑ । या॒तु॒ऽधान॑: । य: । अ॒घ्न्याया॑: । भर॑ति । क्षी॒रम् । अ॒ग्ने॒ । तेषा॑म् । शी॒र्षाणि॑ । हर॑सा । अपि॑ । वृ॒श्च॒ ॥३.१५॥
स्वर रहित मन्त्र
यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः। यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥
स्वर रहित पद पाठय: । पौरुषेयेण । क्रविषा । सम्ऽअङ्क्ते । य: । अश्व्येन । पशुना । यातुऽधान: । य: । अघ्न्याया: । भरति । क्षीरम् । अग्ने । तेषाम् । शीर्षाणि । हरसा । अपि । वृश्च ॥३.१५॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(यः) राक्षसः (पौरुषेयेण) अ० ७।१०५।१। पुरुषवधेन प्राप्तेन (क्रविषा) अर्चिशुचिहु०। उ० २।१०८। क्रव वधे-इसि। मांसेन (समङ्क्ते) सम्पूर्वकः अञ्जू भरणे भक्षणे च। आत्मानं पोषयति (यः) (अश्व्येन) भवे छन्दसि। पा० ४।४।११०। अश्व-यत्। अश्वसम्बन्धिना क्रविषा (पशुना) अजादिप्राणिना (यातुधानः) दुःखदायकः (यः) (अघ्न्यायाः) अ० ३।३०।१। अहन्तव्याया गोः (भरति) हस्य भः। हरति नाशयति (क्षीरम्) दुग्धम् (अग्ने) (तेषाम्) यातुधानानाम् (शीर्षाणि) शिरांसि (हरसा) बलेन (अपि वृश्च) सर्वथा छिन्धि ॥
इस भाष्य को एडिट करें