Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 12
    सूक्त - चातनः देवता - अग्निः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः। म॒न्योर्मन॑सः शर॒व्या॒ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥

    स्वर सहित पद पाठ

    यत् । अ॒ग्ने॒ । अ॒द्य । मि॒थु॒ना । शपा॑त: । यत् । वा॒च: । तृ॒ष्टम् । ज॒नय॑न्त: । रे॒भा: । म॒न्यो: । मन॑स: । श॒र॒व्या᳡ । जाय॑ते । या । तया॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् ॥३.१२॥


    स्वर रहित मन्त्र

    यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः। मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥

    स्वर रहित पद पाठ

    यत् । अग्ने । अद्य । मिथुना । शपात: । यत् । वाच: । तृष्टम् । जनयन्त: । रेभा: । मन्यो: । मनस: । शरव्या । जायते । या । तया । विध्य । हृदये । यातुऽधानान् ॥३.१२॥

    अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 12

    टिप्पणीः - १२−(यत्) (अग्ने) (अद्य) अस्मिन् दिने (मिथुना) अ० ६।१४१।२। मिथृ वधे-उनन्। हिंसकौ (शपातः) शपतः (यत्) (वाचः) वाण्याः (तृष्टम्) ञितृषा पिपासायाम्-भावे क्त। तृष्णाम्। कटुत्वमित्यर्थः (जनयन्त) जनयन्ति। उत्पादयन्ति (रेभाः) रेभृ शब्दे-अच्। शब्दायमानाः शत्रवः (मन्योः) क्रोधात् (मनसः) अन्तःकरणस्य (शरव्या) अ० १।१९।१। शरु-यत्। बाणसंहतिः (जायते) उत्पद्यते (या) (तया) (विध्य) ताडय (हृदये) (यातुधानान्) पीडाप्रदान् ॥

    इस भाष्य को एडिट करें
    Top