अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 14
सूक्त - चातनः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे॑नं श॒पथा॑ यन्तु सृ॒ष्टाः। वा॒चास्ते॑नं॒ शर॑व ऋच्छन्तु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ॥
स्वर सहित पद पाठपरा॑ । अ॒द्य । दे॒वा: । वृ॒जि॒नम् । शृ॒ण॒न्तु॒ । प्र॒त्यक् । ए॒न॒म् । श॒पथा॑: । य॒न्तु॒ । सृ॒ष्टा: । वा॒चाऽस्ते॑नम् । शर॑व: । ऋ॒च्छ॒न्तु॒ । मर्म॑न् । विश्व॑स्य । ए॒तु॒ । प्रऽसि॑तिम् । या॒तु॒ऽधान॑: ॥३.१४॥
स्वर रहित मन्त्र
पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु सृष्टाः। वाचास्तेनं शरव ऋच्छन्तु मर्मन्विश्वस्यैतु प्रसितिं यातुधानः ॥
स्वर रहित पद पाठपरा । अद्य । देवा: । वृजिनम् । शृणन्तु । प्रत्यक् । एनम् । शपथा: । यन्तु । सृष्टा: । वाचाऽस्तेनम् । शरव: । ऋच्छन्तु । मर्मन् । विश्वस्य । एतु । प्रऽसितिम् । यातुऽधान: ॥३.१४॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(अद्य) अस्मिन् दिने (देवाः) विजिगीषवः शूराः (वृजिनम्) अ० १।१०।३। पापिनम्। वक्रस्वभावम् (पराशृणन्तु) दुरे नाशयन्तु (प्रत्यक्) प्रतिकूलगत्या (एनम्) वृजिनम् (शपथाः) कुवचनानि (यन्तु) प्राप्नुवन्तु (सृष्टाः) त्यक्ताः। उच्चारिताः (वाचास्तेनम्) मृषावचनेन हर्तारम् (शरवः) बाणाः (ऋच्छन्तु) ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु। प्राप्नुवन्तु (मर्मन्) अ० ५।८।९। जीवमरणस्थाने (विश्वस्य) अशूप्रुषिलटि०। उ० १।१५१। विश प्रवेशने-क्वन्। सर्वत्र प्रवेशकस्य राज्ञः (एतु) गच्छतु (प्रसितिम्) म० ११। निगडम्। शृङ्खलाम् (यातुधानः) दुःखदायकः ॥
इस भाष्य को एडिट करें