Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 21
    सूक्त - चातनः देवता - अग्निः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑फा॒रुजो॒ येन॒ पश्य॑सि यातु॒धाना॑न्। अ॑थर्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्योष ॥

    स्वर सहित पद पाठ

    तत् । अ॒ग्ने॒ । चक्षु॑: । प्रति॑ । धे॒हि॒ । रे॒भे । श॒फ॒ऽआ॒रुज॑: । येन॑ । पश्य॑सि । या॒तु॒ऽधाना॑न् । अ॒थ॒र्व॒ऽवत् । ज्योति॑षा । दैव्ये॑न । स॒त्यम् । धूर्व॑न्तम् । अ॒चित॑म् । नि । ओ॒ष॒ ॥३.२१॥


    स्वर रहित मन्त्र

    तदग्ने चक्षुः प्रति धेहि रेभे शफारुजो येन पश्यसि यातुधानान्। अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥

    स्वर रहित पद पाठ

    तत् । अग्ने । चक्षु: । प्रति । धेहि । रेभे । शफऽआरुज: । येन । पश्यसि । यातुऽधानान् । अथर्वऽवत् । ज्योतिषा । दैव्येन । सत्यम् । धूर्वन्तम् । अचितम् । नि । ओष ॥३.२१॥

    अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 21

    टिप्पणीः - २१−(तत्) क्रूरम् (अग्ने) (चक्षुः) दृष्टिम् (प्रति) प्रतिकूलम् (धेहि) स्थापय (रेभे)-म० १२। शब्दायमाने कोलाहलं कुर्वाणे दुष्टे (शफारुजः) शम शान्तौ-अच् मस्य फः पृषोदरादित्वात्-इति शब्दस्तोममहानिधिः। शफ+आ+रुजो भङ्गे-क्विप्। शान्तिसम्भञ्जकान् (येन) चक्षुषा (पश्यसि) अवलोकयसि (यातुधानान्) पीडाप्रदान् (अथर्ववत्) अ० ४।१।७। निश्चलस्वभावो मुनिर्यथा (ज्योतिषा) तेजसा (दैव्येन) देवाद् यञञौ। वा० पा० ४।१।८५। देव-यञ्। देवेभ्यो विद्वद्भ्यः प्राप्तेन (सत्यम्) यथार्थम् (धूर्वन्तम्) धुर्वी हिंसायाम्-शतृ। हिंसन्तम् (अचितम्) अचेत्तारम् निर्बुद्धिम् (नि) नितराम् (ओष) उष दाहे-लोट्। दह ॥

    इस भाष्य को एडिट करें
    Top