अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 9
ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः। हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ॥
स्वर सहित पद पाठती॒क्ष्णेन॑ । अ॒ग्ने॒ । चक्षु॑षा । र॒क्ष॒ । य॒ज्ञम् । प्राञ्च॑म् । वसु॑ऽभ्य: । न॒य॒ । प्र॒ऽचे॒त॒: । हिं॒स्रम् । रक्षां॑सि । अ॒भि । शोशु॑चानम् । मा । त्वा॒ । द॒भ॒न् । या॒तु॒ऽधाना॑: । नृ॒ऽच॒क्ष॒: ॥३.९॥
स्वर रहित मन्त्र
तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः। हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन्यातुधाना नृचक्षः ॥
स्वर रहित पद पाठतीक्ष्णेन । अग्ने । चक्षुषा । रक्ष । यज्ञम् । प्राञ्चम् । वसुऽभ्य: । नय । प्रऽचेत: । हिंस्रम् । रक्षांसि । अभि । शोशुचानम् । मा । त्वा । दभन् । यातुऽधाना: । नृऽचक्ष: ॥३.९॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(तीक्ष्णेन) क्रूरेण (अग्ने) (चक्षुषा) दृष्ट्या (रक्ष) पालय (यज्ञम्) पूजनीयं व्यवहारम् (प्राञ्चम्) प्रगतम्। श्रेष्ठम् (वसुभ्यः) धनानां लाभाय (प्र णय) प्रगमय (प्रचेतः) दूरदर्शिन् राजन् (हिंस्रम्) हिंसकम् (रक्षांसि) राक्षसान् (अभि) प्रति (शोशुचानम्) भृशं दीपयन्तम् (मा दभन्) मा हिंसिषुः (त्वा) त्वाम् (यातुधानाः) राक्षसाः (नृचक्षः) हे मनुष्याणां द्रष्टः ॥
इस भाष्य को एडिट करें