अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 24
वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा। प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्षो॑भ्यो वि॒निक्ष्वे॑ ॥
स्वर सहित पद पाठवि । ज्योति॑षा । बृ॒ह॒ता । भा॒ति॒ । अ॒ग्नि: । आ॒वि: । विश्वा॑नि । कृ॒णु॒ते॒ । म॒हि॒ऽत्वा । प्र । अदे॑वी: । मा॒या: । स॒ह॒ते॒ । दु॒:ऽएवा॑: । शिशी॑ते । शृङ्गे॒ इति॑ । रक्ष॑:ऽभ्य: । वि॒ऽनिक्ष्वे॑ ॥३.२४॥
स्वर रहित मन्त्र
वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा। प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षोभ्यो विनिक्ष्वे ॥
स्वर रहित पद पाठवि । ज्योतिषा । बृहता । भाति । अग्नि: । आवि: । विश्वानि । कृणुते । महिऽत्वा । प्र । अदेवी: । माया: । सहते । दु:ऽएवा: । शिशीते । शृङ्गे इति । रक्ष:ऽभ्य: । विऽनिक्ष्वे ॥३.२४॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 24
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २४−(वि) विविधम् (ज्योतिषा) तेजसा (बृहता) महता (भाति) प्रकाशते (अग्निः) अग्निवत्तेजस्वी राजा (आविः) अर्चिशुचिहु०। उ० २।१०८। आङ्+अव रक्षणादिषु-इसि। प्राकट्ये (विश्वानि) सर्वाणि वस्तूनि (कृणुते) करोति (महित्वा) महिम्ना (प्र) प्रकर्षेण (अदेवीः) अशुद्धाः (मायाः) बुद्धीः (सहते) अभिभवति। जयति (दुरेवाः) अ० ७।५०।७। दुर्गतियुक्ताः (शिशीते) तेजते (शृङ्गे) शृणातेर्ह्रस्वश्च। उ० १।१२६। शॄ हिंसायाम्-गन्, स च कित्, नुट् च। शृङ्गं श्रयतेर्वा शृणातेर्वा शरणायोद्गतमिति वा शिरसो निर्गतमिति वा-निरु० २।७। शृङ्गं प्राधान्यसान्वोश्च-इत्यमरः २३।२६। द्विप्रकारे प्राधान्ये प्रजापालनं शत्रुनाशनं च (रक्षोभ्यः) षष्ठ्यर्थे चतुर्थी वक्तव्या। वा० पा० २।३।६२। रक्षसाम्। दुष्टानाम् (विनिक्ष्वे) भृमृशीङ्०। १।७। णिक्ष चुम्बने, विपूर्वको नाशने-उ प्रत्ययः, यणादेशः। विनिक्ष्वे। विनाशाय ॥
इस भाष्य को एडिट करें