अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 24
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
ये र॒थिनो॒ ये अ॑र॒था अ॑सा॒दा ये च॑ सा॒दिनः॑। सर्वा॑नदन्तु॒ तान्ह॒तान्गृध्राः॑ श्ये॒नाः प॑त॒त्रिणः॑ ॥
स्वर सहित पद पाठये । र॒थिन॑: । ये । अ॒र॒था: । अ॒सा॒दा: । ये । च॒ । सा॒दिन॑: । सर्वा॑न् । अ॒द॒न्तु॒ । तान् । ह॒तान् । गृध्रा॑: । श्ये॒ना: । प॒त॒त्रिण॑: ॥१२.२४॥
स्वर रहित मन्त्र
ये रथिनो ये अरथा असादा ये च सादिनः। सर्वानदन्तु तान्हतान्गृध्राः श्येनाः पतत्रिणः ॥
स्वर रहित पद पाठये । रथिन: । ये । अरथा: । असादा: । ये । च । सादिन: । सर्वान् । अदन्तु । तान् । हतान् । गृध्रा: । श्येना: । पतत्रिण: ॥१२.२४॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 24
विषय - शत्रुसेना का विजय।
भावार्थ -
(ये रथिनः) जो रथों पर सवार हैं (ये अरथाः) और जो रथ पर सवार नहीं हैं, (असादाः) जो घोड़ों पर सवार नहीं हैं, ये च (सादिनः) और जो घोड़ों पर सवार हैं (तान्) उन (सर्वान्) सब (हतान्) मरे हुओं को (गृध्राः) गीध (श्येनाः) सेन, बाज और (पतत्रिणः) अन्यान्य चील, कौवें आदि पक्षी (अदन्तु) खावें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। मन्त्रोक्तस्त्रिषन्धिर्देवता। १ विराट् पथ्याबृहती, २ त्र्यवसाना षट्पा त्रिष्टुब्गर्भाति जगती, ३ विराड् आस्तार पंक्तिः, ४ विराट् त्रिष्टुप् पुरो विराट पुरस्ताज्ज्योतिस्त्रिष्टुप्, १२ पञ्चपदा पथ्यापंक्तिः, १३ षट्पदा जगती, १६ त्र्यवसाना षट्पदा ककुम्मती अनुष्टुप् त्रिष्टुब् गर्भा शक्वरी, १७ पथ्यापंक्तिः, २१ त्रिपदा गायत्री, २२ विराट् पुरस्ताद बृहती, २५ ककुप्, २६ प्रस्तारपंक्तिः, ६-११, १४, १५, १८-२०, २३, २४, २७ अनुष्टुभः। सप्तविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें