अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 23
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - पुरोबार्हतातिजागतगर्भा त्रिष्टुप्
सूक्तम् - ब्रह्मचर्य सूक्त
दे॒वाना॑मे॒तत्प॑रिषू॒तमन॑भ्यारूढं चरति॒ रोच॑मानम्। तस्मा॑ज्जा॒तं ब्राह्म॑णं॒ ब्रह्म॑ ज्ये॒ष्ठं दे॒वाश्च॒ सर्वे॑ अ॒मृते॑न सा॒कम् ॥
स्वर सहित पद पाठदे॒वाना॑म् । ए॒तत् । प॒रि॒ऽसू॒तम् । अन॑भिऽआरूढम् । च॒र॒ति॒ । रोच॑मानम् । तस्मा॑त् । जा॒तम् । ब्राह्म॑णम् । ब्रह्म॑ । ज्ये॒ष्ठम् । दे॒वा: । च॒ । सर्वे॑ । अ॒मृते॑न । सा॒कम् ॥७.२३॥
स्वर रहित मन्त्र
देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानम्। तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥
स्वर रहित पद पाठदेवानाम् । एतत् । परिऽसूतम् । अनभिऽआरूढम् । चरति । रोचमानम् । तस्मात् । जातम् । ब्राह्मणम् । ब्रह्म । ज्येष्ठम् । देवा: । च । सर्वे । अमृतेन । साकम् ॥७.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 23
विषय - ब्रह्मचारी के कर्तव्य।
भावार्थ -
(देवानाम् एतत् परिषूतम्) देवों को भी यह ब्रह्म रूप वीर्य सब प्रकार से प्रेरणा करने वाला, उनका संचालक (अनभ्यारूढम्) किसी के भी वश न होकर सर्वोपरि विराजमान (रोचमानम्) अति प्रकाशमान होकर (चरति) व्याप्त है। (तस्मात्) उससे (ब्राह्मणम्) ब्रह्म से उत्पन्न (ज्येष्ठम्) सर्वोत्कृष्ट ब्रह्म वेदज्ञान और (अमृतेन साकम्) अमृत मोक्ष के साथ (सर्वे देवाः च) समस्त देवगण दिव्य सूर्यादिलोक और विद्वान् गण भी (जातम्) उत्पन्न हुए।
टिप्पणी -
(प्र०) ‘देवानामेतत् पुरुहूतम्’ (तृ० च०) ‘तस्मिन् सर्वे पशवस्तत्र यज्ञास्तस्मिन्नन्नं सह देवताभिः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ब्रह्मचारी देवता। १ पुरोतिजागतविराड् गर्भा, २ पञ्चपदा बृहतीगर्भा विराट् शक्वरी, ६ शाक्वरगर्भा चतुष्पदा जगती, ७ विराड्गर्भा, ८ पुरोतिजागताविराड् जगती, ९ बार्हतगर्भा, १० भुरिक्, ११ जगती, १२ शाकरगर्भा चतुष्पदा विराड् अतिजगती, १३ जगती, १५ पुरस्ताज्ज्योतिः, १४, १६-२२ अनुष्टुप्, २३ पुरो बार्हतातिजागतगर्भा, २५ आर्ची उष्गिग्, २६ मध्ये ज्योतिरुष्णग्गर्भा। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें