अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 19
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
विश्वा॑न्दे॒वानि॒दं ब्रू॑मः स॒त्यसं॑धानृता॒वृधः॑। विश्वा॑भिः॒ पत्नी॑भिः स॒ह ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठविश्वा॑न् । दे॒वान् । इ॒दम् । ब्रू॒म॒: । स॒त्यऽसं॑धान् । ऋ॒त॒ऽवृध॑: । विश्वा॑भि: । पत्नी॑भि: । स॒ह । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१९॥
स्वर रहित मन्त्र
विश्वान्देवानिदं ब्रूमः सत्यसंधानृतावृधः। विश्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठविश्वान् । देवान् । इदम् । ब्रूम: । सत्यऽसंधान् । ऋतऽवृध: । विश्वाभि: । पत्नीभि: । सह । ते । न: । मुञ्चन्तु । अंहस: ॥८.१९॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 19
विषय - पाप से मुक्त होने का उपाय।
भावार्थ -
(विश्वान्) समस्त (सत्यसंधान्) सत्य प्रतिज्ञा करने वाले (ऋतावृधः) और सत्य की वृद्धि करने वाले (देवान्) देव, विद्वान् अधिकारी पुरुषों से (इदं ब्रूमः) हम यह प्रार्थना करते हैं कि वे (विश्वाभिः पत्नीभिः) अपनी समस्त पत्नियों या पालक शक्तियों सहित (नः) हम प्रजाओं को (अंहसः मुञ्चन्तु) पाप से छुड़ावें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शंतातिर्ऋषिः। चन्द्रमा उत मन्त्रोक्ता देवता। २३ बृहतीगर्भा अनुष्टुप्, १–१७, १९-२२ अनुष्टुभः, १८ पथ्यापंक्तिः। त्रयोविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें