Loading...
अथर्ववेद के काण्ड - 10 के सूक्त 4 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 1
    ऋषि: - गरुत्मान् देवता - तक्षकः छन्दः - पथ्यापङ्क्तिः सूक्तम् - सर्पविषदूरीकरण सूक्त
    80

    इन्द्र॑स्य प्रथ॒मो रथो॑ दे॒वाना॒मप॑रो॒ रथो॒ वरु॑णस्य तृ॒तीय॒ इत्। अही॑नामप॒मा रथः॑ स्था॒णुमा॑र॒दथा॑र्षत् ॥

    स्वर सहित पद पाठ

    इन्द्र॑स्य । प्र॒थ॒म: । रथ॑: । दे॒वाना॑म् । अप॑र: । रथ॑: । वरु॑णस्य । तृ॒तीय॑: । इत् । अही॑नाम् । अ॒प॒ऽमा । रथ॑: । स्था॒णुम् । आ॒र॒त् । अथ॑ । अ॒र्ष॒त् ॥४.१॥


    स्वर रहित मन्त्र

    इन्द्रस्य प्रथमो रथो देवानामपरो रथो वरुणस्य तृतीय इत्। अहीनामपमा रथः स्थाणुमारदथार्षत् ॥

    स्वर रहित पद पाठ

    इन्द्रस्य । प्रथम: । रथ: । देवानाम् । अपर: । रथ: । वरुणस्य । तृतीय: । इत् । अहीनाम् । अपऽमा । रथ: । स्थाणुम् । आरत् । अथ । अर्षत् ॥४.१॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    सर्प रूप दोषों के नाश का उपदेश।

    पदार्थ

    (इन्द्रस्य) इन्द्र [बड़े ऐश्वर्यवाले राजा] का (प्रथमः) पहिला (रथः) रथ है, (देवानाम्) विजयी [शूर मन्त्रियों] का (अपरः) दूसरा (रथः) रथ, और (वरुणस्य) वरुण [श्रेष्ठ वैद्य] का (तृतीयः) तीसरा (इत्) ही है (अहीनाम्) महाहिंसक [साँपों] का (अपमा) खोटा (रथः) रथ (स्थाणुम्) ठूँठ [सूखे पेड़] पर (आरत्) पहुँचा है, (अथ) अब (अर्षत्) वह चला जावे ॥१॥

    भावार्थ

    राजा, मन्त्री और वैद्य के प्रयत्न से सर्परूप कुठौर में वर्तमान दुष्ट लोग और दुष्ट रोग प्रजा में से नष्ट हो जावें ॥१॥

    टिप्पणी

    १−(इन्द्रस्य) परमैश्वर्यवतो राज्ञः (प्रथमः) अग्रगामी (रथः) यानम् (देवानाम्) विजिगीषूणां मन्त्रिणाम् (अपरः) द्वितीयः (रथः) (वरुणस्य) श्रेष्ठस्य वैद्यस्य (तृतीयः) (इत्) एव (अहीनाम्) अ० २।५।५। आङि श्रिहनिभ्यां ह्रस्वश्च। उ० ४।१३८। आङ्+हन हिंसागत्योः-इण् डित्, आङो ह्रस्वत्वम्। अहिरयनादिति अन्तरिक्षे, अयमपीतरोऽहिरेतस्मादेव, निर्ह्रसित उपसर्ग आहन्तीति-निरु० २।१७। आहन्तॄणाम्। महाहिंसकानाम्। सर्पाणाम् (अपमा) अन्येष्वपि दृश्यते। पा० ३।२।१०१। अप+माङ् माने−ड। सुपां सुलुक्०। पा० ७।१।३९। विभक्तेराकारः। अपमः। अवमः। कुत्सितः। नीचः (रथः) (स्थाणुम्) स्थो णुः। उ० ३।३७। ष्ठा गतिनिवृत्तौ−णु। निश्चलः। शुष्कवृक्षः (आरत्) ऋ गतौ−लुङ्। अगमत् (अथ) इदानीम् (अर्षत्) ऋषी गतौ−लेट्। लेटोऽडाटौ। पा० ३।४।९४। इत्यटि गुणश्च। गच्छेत् स रथः ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Snake poison cure

    Meaning

    The chariot speed of Indra’s, i.e., the speed of electricity (in the treatment of snake poison) is first and fastest, that of Deva’s, other powers of nature (such as clay, heat, etc.) is next, and that of Varuna’s, water treatment, is third. The ratha, speed of poison, of snakes is low. It comes to a stop as against a pillar and goes out.

    Top