Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 4
    सूक्त - कुत्सः देवता - आत्मा छन्दः - त्रिष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत। तत्राह॑ता॒स्त्रीणि॑ श॒तानि॑ श॒ङ्कवः॑ ष॒ष्टिश्च॒ खीला॒ अवि॑चाचला॒ ये ॥

    स्वर सहित पद पाठ

    द्वाद॑श । प्र॒ऽधय॑: । च॒क्रम् । एक॑म् । त्रीणि॑ । नभ्या॑नि । क: । ऊं॒ इति॑ । तत् । चि॒के॒त॒ । तत्र॑ । आऽह॑ता: । त्रीणि॑ । श॒तानि॑ । श॒ङ्कव॑: । ष॒ष्टि: । च॒ । खीला॑: । अवि॑ऽचाचला: । ये ॥८.४॥


    स्वर रहित मन्त्र

    द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत। तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥

    स्वर रहित पद पाठ

    द्वादश । प्रऽधय: । चक्रम् । एकम् । त्रीणि । नभ्यानि । क: । ऊं इति । तत् । चिकेत । तत्र । आऽहता: । त्रीणि । शतानि । शङ्कव: । षष्टि: । च । खीला: । अविऽचाचला: । ये ॥८.४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 4

    भाषार्थ -
    (द्वादश) १२ (प्रधयः) पुट्ठियां (चक्रम् एकम्) एक चक्र (त्रीणि) तीन (नभ्यानि) नाभि के हिस्से (क, उ तत्, चिकेत) कौन उसे जानता है। (तत्र) उस चक्र में (त्रीणि शतानि) तीन सौ (शङ्कवः) शङ्कु (आहताः) हैं, (षष्टिः, च) और साठ (खीलाः) कील हैं (ये) जो कि (अविचाचलाः) विचलित नहीं होते [स्थिर रहते हैं]।

    इस भाष्य को एडिट करें
    Top