Loading...
अथर्ववेद के काण्ड - 10 के सूक्त 8 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 8/ मन्त्र 4
    सूक्त - कुत्सः देवता - आत्मा छन्दः - त्रिष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
    78

    द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत। तत्राह॑ता॒स्त्रीणि॑ श॒तानि॑ श॒ङ्कवः॑ ष॒ष्टिश्च॒ खीला॒ अवि॑चाचला॒ ये ॥

    स्वर सहित पद पाठ

    द्वाद॑श । प्र॒ऽधय॑: । च॒क्रम् । एक॑म् । त्रीणि॑ । नभ्या॑नि । क: । ऊं॒ इति॑ । तत् । चि॒के॒त॒ । तत्र॑ । आऽह॑ता: । त्रीणि॑ । श॒तानि॑ । श॒ङ्कव॑: । ष॒ष्टि: । च॒ । खीला॑: । अवि॑ऽचाचला: । ये ॥८.४॥


    स्वर रहित मन्त्र

    द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत। तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥

    स्वर रहित पद पाठ

    द्वादश । प्रऽधय: । चक्रम् । एकम् । त्रीणि । नभ्यानि । क: । ऊं इति । तत् । चिकेत । तत्र । आऽहता: । त्रीणि । शतानि । शङ्कव: । षष्टि: । च । खीला: । अविऽचाचला: । ये ॥८.४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 4
    Acknowledgment

    हिन्दी (1)

    विषय

    परमात्मा और जीवात्मा के स्वरूप का उपदेश।

    पदार्थ

    (द्वादश) बारह (प्रधयः) प्रधि [पुट्ठी अर्थात् महीने], (एकम् चक्रम्) एक पहिया [वर्ष], (त्रीणि) तीन (नभ्यानि) नाभि के अङ्ग [ग्रीष्म, वर्षा और शीत] हैं, (कः उ) किसने ही (तत्) इस [मर्म] को (चिकेत) जाना है। (तत्र) उस [पहिये, वर्ष] में (त्रीणि) तीन (शतानि) सौ (च) और (षष्टिः) साठ (शङ्कवः) शङ्क [काँटे] और (खीलाः) खीले [बड़े-छोटे दिन] (आहताः) लगे हुए हैं, (ये) जो (अविचाचलाः) टेढ़े होकर विचल नहीं होते ॥४॥

    भावार्थ

    जैसे परमेश्वर ने अपने-अपने प्रयोजन के लिये वर्ष के महीने, ऋतुएँ और दिन आदि बनाये हैं, वैसे ही मनुष्य यान, विमान नौका आदि में कलायन्त्र आदि लगाकर जाना-आना आदि व्यवहार किया करें ॥४॥ यह मन्त्र भेद से ऋग्वेद में है−म० १। सू० १६४। म–० ४८, और निरुक्त ४।२७। में भी व्याख्यात है ॥

    टिप्पणी

    ४−(द्वादश) (प्रधयः) प्रधितुल्यमासाः (चक्रम्) रथचक्रवद्वर्षकालः (एकम्) (त्रीणि) (नभ्यानि) रथनाभिभवानि अङ्गानि। ग्रीष्मवर्षाशीतरूपाणि (कः) विद्वान् (उ) एव (तत्) (चिकेत) ज्ञातवान् (तत्र) चक्रे (वर्षे (आहताः) हन हिंसागत्योः-क्त। आगताः। स्थापिताः (त्रीणि) (शतानि) (शङ्कवः) खरुशङ्कुपीयु०। उ० १।३६। शकि त्रासे शङ्कायां च-कु। कीलाः (षष्टिः) (च) (खीलाः) कील बन्धने-क, कस्य खः। अल्पशङ्कवः (अविचाचलाः) नित्यं कौटिल्ये गतौ। पा० ३।१।२३। अ+वि+चल गतौ-यङ् अच्। अकुटिलगतयः (ये) ॥

    इंग्लिश (1)

    Subject

    Jyeshtha Brahma

    Meaning

    One is the wheel, twelve segments of the felly, three segments of the nave. Who would know that wheel of existence? Three hundred and sixty are the spokes fixed therein, and as many spikes, all fixed and firm, immovable. He, Brahma, would know that.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ४−(द्वादश) (प्रधयः) प्रधितुल्यमासाः (चक्रम्) रथचक्रवद्वर्षकालः (एकम्) (त्रीणि) (नभ्यानि) रथनाभिभवानि अङ्गानि। ग्रीष्मवर्षाशीतरूपाणि (कः) विद्वान् (उ) एव (तत्) (चिकेत) ज्ञातवान् (तत्र) चक्रे (वर्षे (आहताः) हन हिंसागत्योः-क्त। आगताः। स्थापिताः (त्रीणि) (शतानि) (शङ्कवः) खरुशङ्कुपीयु०। उ० १।३६। शकि त्रासे शङ्कायां च-कु। कीलाः (षष्टिः) (च) (खीलाः) कील बन्धने-क, कस्य खः। अल्पशङ्कवः (अविचाचलाः) नित्यं कौटिल्ये गतौ। पा० ३।१।२३। अ+वि+चल गतौ-यङ् अच्। अकुटिलगतयः (ये) ॥

    Top