अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 12
सूक्त - अथर्वा
देवता - वरुणः
छन्दः - पञ्चपदानुष्टुब्गर्भा भुरिक्त्रिष्टुप्
सूक्तम् - वृष्टि सूक्त
अ॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॒ श्वस॑न्तु॒ गर्ग॑रा अ॒पां व॑रु॒णाव॒ नीची॑र॒पः सृ॑ज। वद॑न्तु॒ पृश्नि॑बाहवो म॒ण्डूका॒ इरि॒णानु॑ ॥
स्वर सहित पद पाठअ॒प: । नि॒ऽसि॒ञ्चन् । असु॑र: । पि॒ता । न॒: । श्वस॑न्तु । गर्ग॑रा: । अ॒पाम् । व॒रु॒ण॒ । अव॑ । नीची॑: । अ॒प: । सृ॒ज॒ । वद॑न्तु । पृश्नि॑ऽबाहव: । म॒ण्डूका॑: । इरि॑णा । अनु॑ ॥१५.१२॥
स्वर रहित मन्त्र
अपो निषिञ्चन्नसुरः पिता नः श्वसन्तु गर्गरा अपां वरुणाव नीचीरपः सृज। वदन्तु पृश्निबाहवो मण्डूका इरिणानु ॥
स्वर रहित पद पाठअप: । निऽसिञ्चन् । असुर: । पिता । न: । श्वसन्तु । गर्गरा: । अपाम् । वरुण । अव । नीची: । अप: । सृज । वदन्तु । पृश्निऽबाहव: । मण्डूका: । इरिणा । अनु ॥१५.१२॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 12
भाषार्थ -
(असुरः) प्राण-प्रदाता (नः पिता) हमारा रक्षक, प्रजापति- आदित्य, (अपः) जलों को (निषिञ्चन् [भवतु]) नितरां सींचता रहे, अथवा निचली भूमि को सींचता रहे, (अपाम्) मेघस्थ जलों के (गर्गराः) गड़गड़ाते शब्द (श्वसन्तु) प्राणवान् हों, प्रबल हों; (वरुण) हे उदकाधिपति! (अप:) जलों को (नीची:) नीचे की ओर (अवसृज) प्रेरित कर। (पृश्निबाहव:) शुभ्र बाहुओंवाले अथवा नानावर्णोंवाली बाहुओंवाले (मण्डूकाः) मण्डूक (इरिणा = इरिणानि अनु) जलमय प्रदेशों को प्राप्त हुए (वदन्तु) बोलें।
टिप्पणी -
[असुर:=असु: प्राणः, तद्वान् अथवा तद्-दाता (रा दाने अदादि:)। असुरिति प्राणनाम, अस्तः शरीरे भवति तेन तद्वन्तः "[असुराः]" (निरुक्त ३।२।८)। असुर: = असु+र: (वाला) मत्वर्थीय, अथवा 'रा दाने' (अदादिः)। श्वसन्तु=श्वस प्राणने (अदादि:)। वरुण="वरुणः अपामधिपतिः" (अथर्व ०५।२४।४)। इरिणा=इरा= जल, यथा "इरावत्यः नद्यः" (निघंटु १।१३) तथा इरा=water (आप्टे)। अथवा "इरिणशब्दो निस्तृणभूवचनः। इरिणानि अनुप्राप्य वृष्टिजलेन लब्धप्राणाः सन्तः वदन्तु शब्दं कुर्वन्तु" (सायण)।]