अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 12
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - पञ्चपदा विराडतिशक्वरी
सूक्तम् - ओषधि समूह सूक्त
मधु॑म॒न्मूलं॒ मधु॑म॒दग्र॑मासां॒ मधु॑म॒न्मध्यं॑ वी॒रुधां॑ बभूव। मधु॑मत्प॒र्णं मधु॑म॒त्पुष्प॑मासां॒ मधोः॒ सम्भ॑क्ता अ॒मृत॑स्य भ॒क्षो घृ॒तमन्नं॑ दुह्रतां॒ गोपु॑रोगवम् ॥
स्वर सहित पद पाठमधु॑ऽमत् । मूल॑म् । मधु॑ऽमत् । अग्र॑म् । आ॒सा॒म् । मधु॑ऽमत् । मध्य॑म् । वी॒रुधा॑म् । ब॒भू॒व॒ । मधु॑ऽमत् । प॒र्णम् । मधु॑ऽमत् । पुष्प॑म् । आ॒सा॒म् । मधो॑: । सम्ऽभ॑क्ता: । अ॒मृत॑स्य । भ॒क्ष: । घृ॒तम् । अन्न॑म् । दु॒ह॒ता॒म् । गोऽपु॑रोगवम् ॥७.१२॥
स्वर रहित मन्त्र
मधुमन्मूलं मधुमदग्रमासां मधुमन्मध्यं वीरुधां बभूव। मधुमत्पर्णं मधुमत्पुष्पमासां मधोः सम्भक्ता अमृतस्य भक्षो घृतमन्नं दुह्रतां गोपुरोगवम् ॥
स्वर रहित पद पाठमधुऽमत् । मूलम् । मधुऽमत् । अग्रम् । आसाम् । मधुऽमत् । मध्यम् । वीरुधाम् । बभूव । मधुऽमत् । पर्णम् । मधुऽमत् । पुष्पम् । आसाम् । मधो: । सम्ऽभक्ता: । अमृतस्य । भक्ष: । घृतम् । अन्नम् । दुहताम् । गोऽपुरोगवम् ॥७.१२॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 12
भाषार्थ -
(आसाम्, वीरुधाम्) इन विरोहणशील लता आदि का (मूलम्, मधुमत्) मूल अर्थात् जड़ मधुर, (अग्रम्) अगला भाग (मधुमत्) मधुर, (मध्यम्, मधुमत्) मध्यभाग मधुर (बभूव) हुआ है। (आसाम्) इन का (मधुमत् पर्णम्) पत्ता मधुर, (पुष्पम् मधुमत्) फूल मधुर है; (मधोः संभक्ता) मधु-भीनी तथा मधु देने वाली ये ओषधियां (अमृतस्य भक्षः) अमृतभोजन रूप हैं, ये ओषधियां (गोपुरोगवम्) गोदुग्ध जिन मे अग्रगामी है ऐसे (घृतम्, अन्नम्) घी और अन्न का (दुह्रताम्) दोहन करें, प्रदान करें।
टिप्पणी -
[मन्त्र में घृत, अन्न, तथा गोदुग्ध को अमृतभोजन कहा है। इन में भी गोदुग्ध सर्वश्रेष्ठ है। गोपुरोगवम् = गो (दुग्ध) + पुरः, गवम्)। यथा "अथाप्यस्यां ताद्धितेन कृत्स्नवन्निगमा भवन्ति "गोभिः श्रीणीत मत्सरम्" (ऋ० ९।४६।४) इति पयसः" (निरुक्त २।२।५)। सभी ओषधियों के अङ्ग-प्रत्यङ्ग, यद्यपि आस्वादन में मधुमत् नहीं होते, परन्तु यतः इन का सेवन, मधुर परिणामी होता है, अतः इनका वर्णन मधुमत् रूप में हुआ है]