अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 17
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
ये पुरु॑षे॒ ब्रह्म॑ वि॒दुस्ते वि॑दुः परमे॒ष्ठिन॑म्। यो वेद॑ परमे॒ष्ठिनं॒ यश्च॒ वेद॑ प्र॒जाप॑तिम्। ज्ये॒ष्ठं ये ब्राह्म॑णं वि॒दुस्ते॑ स्क॒म्भम॑नु॒संवि॑दुः ॥
स्वर सहित पद पाठये । पुरु॑षे । ब्रह्म॑ । वि॒दु: । ते । वि॒दु॒: । प॒र॒मे॒ऽस्थिन॑म् । य: । वेद॑ । प॒र॒मे॒ऽस्थिन॑म् । य: । च॒ । वेद॑ । प्र॒जाऽप॑तिम् । ज्ये॒ष्ठम् । ये । ब्राह्म॑णम् । वि॒दु: । ते । स्क॒म्भम् । अ॒नु॒ऽसंवि॑दु: ॥७.१७॥
स्वर रहित मन्त्र
ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम्। यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम्। ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ॥
स्वर रहित पद पाठये । पुरुषे । ब्रह्म । विदु: । ते । विदु: । परमेऽस्थिनम् । य: । वेद । परमेऽस्थिनम् । य: । च । वेद । प्रजाऽपतिम् । ज्येष्ठम् । ये । ब्राह्मणम् । विदु: । ते । स्कम्भम् । अनुऽसंविदु: ॥७.१७॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 17
विषय - ब्रह्म के स्वरूप के विचार का उपदेश।
पदार्थ -
(ये) जो लोग (पुरुषे) मनुष्य में (ब्रह्म) ब्रह्म [परमात्मा] को (विदुः) जानते हैं, (ते) वे (परमेष्ठिनम्) परमेष्ठी [सब से ऊपर स्थित परमात्मा] को (विदुः) जानते हैं। (यः) जो [उस को] (परमेष्ठिनम्) परमेष्ठी (वेद) जानता है, (च) और (यः) जो [उस को] (प्रजापतिम्) प्रजापति [प्राणियों का रक्षक] (वेद) जानता है। और (ये) जो लोग [उसको] (ज्येष्ठम्) ज्येष्ठ [सब से बड़ा वा सबसे श्रेष्ठ] (ब्राह्मणम्) ब्राह्मण [वेदज्ञाता] (विदुः) जानते हैं, (ते) वे सब (स्कम्भम्) स्कम्भ [धारण करनेवाले परमात्मा] को (अनुसंविदुः) पूर्णरूप से पहिचानते हैं ॥१७॥
भावार्थ - जो मनुष्य परमात्मा को अपने भीतर और बाहिर उसके अचल उच्च गुणों से साक्षात् करते हैं, वे अपने आत्मा को उच्च बनाते हैं ॥१७॥
टिप्पणी -
१७−(ये) ब्रह्मज्ञानिनः (पुरुषे) मनुष्ये (ब्रह्म) परमात्मानम् (विदुः) जानन्ति (ते) विद्वांसः (विदुः) (परमेष्ठिनम्) अ० १।७।२। सर्वोपरिविराजमानम् (यः) पुरुषः (वेद) जानाति (प्रजापतिम्) सर्वप्राणिरक्षकम् (ज्येष्ठम्) वृद्ध वा प्रशस्य-इष्ठन्। वृद्धस्य च। पा० ५।३।६२। ज्यादेशः। वृद्धतमम्। प्रशस्यतमम् (ये) (ब्राह्मणम्) अ० २।६।३। वेदज्ञातारम् (अनुसंविदुः) पूर्णरीत्या जानन्ति। अन्यत् पूर्ववत् ॥