अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 39
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाज्ज्योतिर्जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्मै॒ हस्ता॑भ्यां॒ पादा॑भ्यां वा॒चा श्रोत्रे॑ण॒ चक्षु॑षा। यस्मै॑ दे॒वाः सदा॑ ब॒लिं प्र॒यच्छ॑न्ति॒ विमि॒तेऽमि॑तं स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयस्मै॑ । हस्ता॑भ्याम् । पादा॑भ्याम् । वा॒चा । श्रोत्रे॑ण । चक्षु॑षा । यस्मै॑ । दे॒वा: । सदा॑ । ब॒लिम् । प्र॒ऽयच्छ॑न्ति । विऽमि॑ते । अमि॑तम् । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.३९॥
स्वर रहित मन्त्र
यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा। यस्मै देवाः सदा बलिं प्रयच्छन्ति विमितेऽमितं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयस्मै । हस्ताभ्याम् । पादाभ्याम् । वाचा । श्रोत्रेण । चक्षुषा । यस्मै । देवा: । सदा । बलिम् । प्रऽयच्छन्ति । विऽमिते । अमितम् । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.३९॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 39
विषय - ब्रह्म के स्वरूप के विचार का उपदेश।
पदार्थ -
(यस्मै) जिस [परमेश्वर] को, (यस्मै) जिस [परमेश्वर] को (हस्ताभ्याम्) दोनों हाथों से, (पादाभ्याम्) दोनों पैरों से, (वाचा) वाणी से, (श्रोत्रेण) श्रोत्र से और (चक्षुषा) दृष्टि से (देवाः) विद्वान् लोग (विमिते) विविध प्रकार मापे गये [जगत्] में (अमितम्) अपरिमित (बलिम्) सन्मान (सदा) (प्रयच्छन्ति) देते हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥३९॥
भावार्थ - विद्वान् लोग हाथ पाँव आदि अमूल्य उपकारी अङ्गों को पाकर संसार में उपकार करके परमात्मा का अत्यन्त आदर करते हैं ॥३९॥
टिप्पणी -
३९−(यस्मै यस्मै) परमात्मने नित्यम् (हस्ताभ्याम्) (पादाभ्याम्) (वाचा) वाण्या (श्रोत्रेण) श्रवणेन (चक्षुषा) दृष्ट्या (देवाः) विद्वांसः (सदा) (बलिम्) सर्वधातुभ्य इन्। उ० ४।११८। वल प्राणने धान्यावरोधने च-इन्। यद्वा, वर्णेर्बलिश्चाहिरण्ये। उ० ४।१२४। वर्ण स्तुतौ, विस्तारे दीपनादिषु-इन्, धातोर्बल इत्यादेशः। राजकरम्। सत्कारम् (प्रयच्छन्ति) ददति (विमिते) विविधपरिमिते जगत् (अमितम्) अपरिमितम्। अन्यत् पूर्ववत्−म० २२ ॥