अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 20
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाज्ज्योतिर्जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्मा॒दृचो॑ अ॒पात॑क्ष॒न्यजु॒र्यस्मा॑द॒पाक॑षन्। सामा॑नि॒ यस्य॒ लोमा॑न्यथर्वाङ्गि॒रसो॒ मुखं॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयस्मा॑त् । ऋच॑: । अ॒प॒ऽअत॑क्षन् । यजु॑: । यस्मा॑त् । अ॒प॒ऽअक॑षन् । सामा॑नि । यस्य॑ । लोमा॑नि । अ॒थ॒र्व॒ऽअ॒ङ्गि॒रस॑: । मुख॑म् । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.२०॥
स्वर रहित मन्त्र
यस्मादृचो अपातक्षन्यजुर्यस्मादपाकषन्। सामानि यस्य लोमान्यथर्वाङ्गिरसो मुखं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयस्मात् । ऋच: । अपऽअतक्षन् । यजु: । यस्मात् । अपऽअकषन् । सामानि । यस्य । लोमानि । अथर्वऽअङ्गिरस: । मुखम् । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.२०॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 20
विषय - ब्रह्म के स्वरूप के विचार का उपदेश।
पदार्थ -
(यस्मात्) जिस से [प्राप्त करके] (ऋचः) ऋग् मन्त्रों [स्तुतिविद्याओं] को (अप-अतक्षन्) उन्होंने [ऋषियों ने] सूक्ष्म किया [भले प्रकार विचारा] (यस्मात्) जिससे [प्राप्त करके] (यजुः) यजुर्ज्ञान [सत्कर्मों के बोध] को (अप-अकषन्) उन्होंने कसा अर्थात् कसौटी पर रक्खा। (सामानि) मोक्षविद्याएँ (यस्य) जिस के (लोमानि) रोम [समान व्यापक] हैं और (अथर्व-अङ्गिरसः) अथर्वमन्त्र [निश्चल ब्रह्म के ज्ञान] (मुखम्) मुख [तुल्य हैं], (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥२०॥
भावार्थ - ऋषियों ने निश्चय किया है कि ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेद ईश्वरकृत और समस्त संसार के कल्याणकारक हैं ॥२०॥ यह मन्त्र महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृष्ठ ९। में व्याख्यात है ॥
टिप्पणी -
२०−(यस्मात्) परमेश्वरात् प्राप्य (ऋचः) ऋग् वाङ्नाम-निघ० १।११। ऋग्वेदमन्त्राः [अपातक्षन्] तक्षू तनूकरणे-लङ्। सूक्ष्मीकृतवन्तः। यथावद् विचारितवन्तः (यजुः) अ० ७।५४।२। यजुर्वेदम्। सत्कर्मज्ञानम् (यस्मात्) (अपाकषन्) कष हिंसायाम्-लङ्। कषपाषाणेन सुवर्णघर्षणप्रस्तरेण यथा साक्षात्कृतवन्तः (सामानि) अ० ७।५४।१। षो अन्तकर्मणि-मनिन्। सामज्ञानानि। मोक्षज्ञानानि (यस्य) (लोमानि) रोमतुल्यानि (अथर्वाङ्गिरसः) स्नामदिपद्यर्ति०। उ० ४।११३। अ+थर्व चरणे=गतौ-वनिप्, वलोपो विकल्पेन। अथर्वाणोऽथर्वन्तस्थर्वतिश्चरतिकर्मा तत्प्रतिषेधः-निरु० ११।१८। अङ्गतेरसिरिरुडागमश्च। उ० ४।२३६। अगि गतौ-असि, इरुडागमश्च। अथर्वणो निश्चलस्वभावस्य परमेश्वरस्य अङ्गिरसो बोधाः। अथर्ववेदमन्त्राः (मुखम्)। अन्यत् पूर्ववत् ॥