अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 26
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
यत्र॑ स्क॒म्भः प्र॑ज॒नय॑न्पुरा॒णं व्यव॑र्तयत्। एकं॒ तदङ्गं॑ स्क॒म्भस्य॑ पुरा॒णम॑नु॒संवि॑दुः ॥
स्वर सहित पद पाठयत्र॑ । स्क॒म्भ: । प्र॒ऽज॒नय॑न् । पु॒रा॒णम् । वि॒ऽअव॑र्तयत् । एक॑म् । तत् । अङ्ग॑म् । स्क॒म्भस्य॑ । पु॒रा॒णम् । अ॒नु॒ऽसंवि॑दु: ॥७.२६॥
स्वर रहित मन्त्र
यत्र स्कम्भः प्रजनयन्पुराणं व्यवर्तयत्। एकं तदङ्गं स्कम्भस्य पुराणमनुसंविदुः ॥
स्वर रहित पद पाठयत्र । स्कम्भ: । प्रऽजनयन् । पुराणम् । विऽअवर्तयत् । एकम् । तत् । अङ्गम् । स्कम्भस्य । पुराणम् । अनुऽसंविदु: ॥७.२६॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 26
विषय - ब्रह्म के स्वरूप के विचार का उपदेश।
पदार्थ -
(यत्र) जहाँ [जिस काल में] [कार्यरूप जगत् को] (प्रजनयन्) उत्पन्न करते हुए (स्कम्भः) स्कम्भ [धारण करनेवाले परमात्मा] ने (पुराणम्) पुराने [कारण] को (व्यवर्तयत्) चक्राकार घुमाया, (तत्) उस (पुराणम्) पुराने [कारण] को (स्कम्भस्य) स्कम्भ [धारण करनेवाले परमेश्वर] का (एकम् अङ्गम्) एक अङ्ग वे [तत्त्ववेत्ता] (अनुसंविदुः) पूर्ण रीति से जानते हैं ॥२६॥
भावार्थ - कारणरूप पदार्थ कार्यरूप जगत् से पुरातन है। उस कारणरूप पदार्थ को विविध प्रकार चेष्टा देकर उसके जिस अङ्ग से सब जगत् रचा गया है, वह परमात्मा के सामर्थ्य का छोटा अंश है ॥२६॥
टिप्पणी -
२६−(यत्र) यस्मिन् काले (स्कम्भः) सर्वधारकः परमेश्वरः (प्रजनयन्) संसारमुत्पादयन् (पुराणम्) सायंचिरंप्राह्णेप्रगे०। पा० ४।३।२३। पुरा-ट्यु। तुडभावः। यद्वा, पुरा+णीञ् प्रापणे−ड, णत्वम्। पुरातनं कारणम् (व्यवर्तयत्) चक्राकारेण वर्तनमकारयत् (अनुसंविदुः) अनुसन्धानेन यथावत् जानन्ति ॥