अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 16
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाद्बृहती
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्य॒ चत॑स्रः प्र॒दिशो॑ ना॒ड्यस्तिष्ठ॑न्ति प्रथ॒माः। य॒ज्ञो यत्र॒ परा॑क्रान्तः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयस्य॑ । चत॑स्र: । प्र॒ऽदिश॑: । ना॒ड्य᳡: । तिष्ठ॑न्ति । प्र॒थ॒मा: । य॒ज्ञ: । यत्र॑ । परा॑ऽक्रान्त: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१६॥
स्वर रहित मन्त्र
यस्य चतस्रः प्रदिशो नाड्यस्तिष्ठन्ति प्रथमाः। यज्ञो यत्र पराक्रान्तः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयस्य । चतस्र: । प्रऽदिश: । नाड्य: । तिष्ठन्ति । प्रथमा: । यज्ञ: । यत्र । पराऽक्रान्त: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१६॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 16
विषय - ब्रह्म के स्वरूप के विचार का उपदेश।
पदार्थ -
(चतस्रः) चारों (प्रदिशः) दिशाएँ (यस्य) जिस [परमेश्वर] की (प्रथमाः) मुख्य (नाड्यः) नाड़ियाँ [समान] (तिष्ठन्ति) हैं। (यत्र) जिस में (यज्ञः) यज्ञ [श्रेष्ठ व्यवहार] (पराक्रान्तः) पराक्रमयुक्त है, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥१६॥
भावार्थ - परमात्मा सब दिशाओं में व्यापकर श्रेष्ठ व्यवहार करनेवाले पुरुष को पराक्रमी बनाता है ॥१६॥
टिप्पणी -
१६−(यस्य) (चतस्रः) (प्रदिशः) पूर्वादयः (नाड्यः) (तिष्ठन्ति) सन्ति (प्रथमाः) मुख्याः (यज्ञः) श्रेष्ठव्यवहारः (यत्र) परमात्मनि (पराक्रान्तः) पराक्रमयुक्तः। अन्यत् पूर्ववत् ॥