अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 25
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
बृ॒हन्तो॒ नाम॒ ते दे॒वा येऽस॑तः॒ परि॑ जज्ञि॒रे। एकं॒ तदङ्गं॑ स्क॒म्भस्यास॑दाहुः प॒रो जनाः॑ ॥
स्वर सहित पद पाठबृ॒हन्त॑: । नाम॑ । ते । दे॒वा: । ये । अस॑त: । परि॑ । ज॒ज्ञि॒रे । एक॑म् । तत् । अङ्ग॑म् । स्क॒म्भस्य॑ । अस॑त् । आ॒हु॒: । प॒र: । जना॑: ॥७.२५॥
स्वर रहित मन्त्र
बृहन्तो नाम ते देवा येऽसतः परि जज्ञिरे। एकं तदङ्गं स्कम्भस्यासदाहुः परो जनाः ॥
स्वर रहित पद पाठबृहन्त: । नाम । ते । देवा: । ये । असत: । परि । जज्ञिरे । एकम् । तत् । अङ्गम् । स्कम्भस्य । असत् । आहु: । पर: । जना: ॥७.२५॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 25
विषय - ब्रह्म के स्वरूप के विचार का उपदेश।
पदार्थ -
(ते) वे [कारणरूप] (देवाः) दिव्य पदार्थ (नाम) अवश्य (बृहन्तः) बड़े हैं, (ये) जो (असतः) असत् [अनित्य कार्यरूप जगत्] से (परि जज्ञिरे) सब ओर प्रकट हुए हैं। (जनाः) लोग (परः) परे [कारण से परे] (तत्) उस (असत्) असत् [अनित्य कार्यरूप जगत्] को (स्कम्भस्य) स्कम्भ [धारण करनेवाले परमात्मा] का (एकम्) एक (अङ्गम्) अङ्ग (आहुः) वे [विद्वान्] बताते हैं ॥२५॥
भावार्थ - ब्रह्मज्ञानी लोग जानते हैं कि कार्यरूप जगत् से कारणरूप जगत् अति अधिक है और परमेश्वर उससे भी अधिक है ॥२५॥
टिप्पणी -
२५−(बृहन्तः) महान्तः (नाम) अवश्यम् (ते) प्रसिद्धाः (देवाः) कारणरूपदिव्यपदार्थाः (ये) (असतः) अनित्यात् कार्यरूपजगतः (परि) सर्वतः (जज्ञिरे) प्रादुर्बभूवुः (एकम्) अल्पमित्यर्थः (तत्) (अङ्गम्) (स्कम्भस्य) परमेश्वरस्य (असत्) अनित्यं कार्यं जगत् (आहुः) कथयन्ति (परः) परस्तात् (जनाः) विद्वांसः ॥