अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 37
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
क॒थं वातो॒ नेल॑यति क॒थं न र॑मते॒ मनः॑। किमापः॑ स॒त्यं प्रेप्स॑न्ती॒र्नेल॑यन्ति क॒दा च॒न ॥
स्वर सहित पद पाठक॒थम् । वात॑: । न । इ॒ल॒य॒ति॒ । क॒थम् । न । र॒म॒ते॒ । मन॑: । किम् । आप॑: । स॒त्यम् । प्र॒ऽईप्स॑न्ती: । न । इ॒ल॒य॒न्ति॒ । क॒दा । च॒न ॥७.३७॥
स्वर रहित मन्त्र
कथं वातो नेलयति कथं न रमते मनः। किमापः सत्यं प्रेप्सन्तीर्नेलयन्ति कदा चन ॥
स्वर रहित पद पाठकथम् । वात: । न । इलयति । कथम् । न । रमते । मन: । किम् । आप: । सत्यम् । प्रऽईप्सन्ती: । न । इलयन्ति । कदा । चन ॥७.३७॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 37
विषय - ब्रह्म के स्वरूप के विचार का उपदेश।
पदार्थ -
(कथम्) कैसे (वातः) वायु (न) नहीं (इलयति) सोता है, (कथम्) कैसे (मनः) मन (न) नहीं (रमते) ठहरता है। (किम्) क्यों (आपः) प्रजाएँ वा जल (सत्यम्) सत्य [ईश्वरनियम] की (प्रेप्सन्तीः) पाने की इच्छा करते हुए (कदा चन) कभी भी (न) नहीं (इलयन्ति) सोते हैं ॥३७॥
भावार्थ - यह वायु, मन, सब प्राणी वा जल आदि क्यों अपना कर्तव्य करते रहते हैं, इसलिये कि एक परब्रह्म संसार में व्याप कर सबको चला रहा है-अगला मन्त्र देखो ॥३७॥
टिप्पणी -
३७−(कथम्) केन प्रकारेण (वातः) वायुः (न) निषेधे (इलयति) इल स्वप्नक्षेपणयोः। स्वपिति (कथम्) (न) (रमते) उपरमति। तिष्ठति (मनः) सङ्कल्पविकल्पात्मकमन्तःकरणम् (किम्) (आपः) प्रजाः। जलानि (सत्यम्) परमात्मनियमम् (प्रेप्सन्तीः) प्राप्तुमिच्छन्त्यः (न) (इलयन्ति) शेरते (कदा चन) कस्मिन्नपि काले ॥