अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 8
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
यत्प॑र॒मम॑व॒मं यच्च॑ मध्य॒मं प्र॒जाप॑तिः ससृ॒जे वि॒श्वरू॑पम्। किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॒ यन्न प्रावि॑श॒त्किय॒त्तद्ब॑भूव ॥
स्वर सहित पद पाठयत् । प॒र॒मम् । अ॒व॒मम् । यत् । च॒ । म॒ध्य॒मम् । प्र॒जाऽप॑ति: । स॒सृ॒जे । वि॒श्वऽरू॑पम् । किय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । तत्र॑ । यत् । न । प्र॒ऽअवि॑शत् । किय॑त् । तत् । ब॒भू॒व॒ ॥७.८॥
स्वर रहित मन्त्र
यत्परममवमं यच्च मध्यमं प्रजापतिः ससृजे विश्वरूपम्। कियता स्कम्भः प्र विवेश तत्र यन्न प्राविशत्कियत्तद्बभूव ॥
स्वर रहित पद पाठयत् । परमम् । अवमम् । यत् । च । मध्यमम् । प्रजाऽपति: । ससृजे । विश्वऽरूपम् । कियता । स्कम्भ: । प्र । विवेश । तत्र । यत् । न । प्रऽअविशत् । कियत् । तत् । बभूव ॥७.८॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 8
विषय - ब्रह्म के स्वरूप के विचार का उपदेश।
पदार्थ -
(यत्) जो कुछ (परमम्) अति ऊँचा, (अवमम्) अति नीचा (च) और (यत्) जो कुछ (मध्यमम्) अति मध्यम (विश्वरूपम्) नाना रूप [जगत्] (प्रजापतिः) प्रजापति [परमेश्वर] ने (ससृजे) रचा था। (कियता) कहाँ तक (स्कम्भः) स्कम्भ [धारण करनेवाले परमेश्वर] ने (तत्र) उस [जगत्] में (प्र विवेश) प्रवेश किया था, (यत्) जितने में उस [परमेश्वर] ने (न) नहीं (प्राविशत्) प्रवेश किया है, (तत्) वह (कियत्) कितना (बभूव) था ॥८॥
भावार्थ - परमेश्वर ने उत्तम, मध्यम और नीच स्वभाववाला इतना बड़ा ब्रह्माण्ड प्राणियों के कर्मानुसार रचा है, और वह जगदीश्वर इतना बड़ा है कि सारे ब्रह्माण्ड के अङ्ग-अङ्ग में निरन्तर रम रहा है ॥८॥ यह मन्त्र ऋषिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृ० १३५ में व्याख्यात है ॥
टिप्पणी -
८−(यत्) यत् किञ्चित् (परमम्) उच्चतमम् (अवमम्) नीचतमम् (यत् च) (मध्यमम्) मध्यतमम् (प्रजापतिः) परमेश्वरः (ससृजे) उत्पादयामास (विश्वरूपम्) नानाविधं जगत् (कियता) किं परिमाणेन (स्कम्भः) सर्वधारकः परमात्मा (प्रविवेश) प्रविष्टवान् (तत्र) जगति (यत्) यत्परिमाणं जगत् (न) निषेधे (प्राविशत्) प्रविष्टवान् परमेश्वरः (कियत्) किं परिमाणम् (तत्) जगत् (बभूव) ववृते ॥