अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 3
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
कस्मि॒न्नङ्गे॑ तिष्ठति॒ भूमि॑रस्य॒ कस्मि॒न्नङ्गे॑ तिष्ठत्य॒न्तरि॑क्षम्। कस्मि॒न्नङ्गे॑ तिष्ठ॒त्याहि॑ता॒ द्यौः कस्मि॒न्नङ्गे॑ तिष्ठ॒त्युत्त॑रं दि॒वः ॥
स्वर सहित पद पाठकस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । भूमि॑: । अ॒स्य॒ । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । अ॒न्तरि॑क्षम् । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । आऽहि॑ता । द्यौ: । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । उत्ऽत॑रम् । दि॒व: ॥७.३॥
स्वर रहित मन्त्र
कस्मिन्नङ्गे तिष्ठति भूमिरस्य कस्मिन्नङ्गे तिष्ठत्यन्तरिक्षम्। कस्मिन्नङ्गे तिष्ठत्याहिता द्यौः कस्मिन्नङ्गे तिष्ठत्युत्तरं दिवः ॥
स्वर रहित पद पाठकस्मिन् । अङ्गे । तिष्ठति । भूमि: । अस्य । कस्मिन् । अङ्गे । तिष्ठति । अन्तरिक्षम् । कस्मिन् । अङ्गे । तिष्ठति । आऽहिता । द्यौ: । कस्मिन् । अङ्गे । तिष्ठति । उत्ऽतरम् । दिव: ॥७.३॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 3
विषय - ब्रह्म के स्वरूप के विचार का उपदेश।
पदार्थ -
(अस्य) इस (सर्वव्यापक ब्रह्म) के (कस्मिन् अङ्गे) कौन से अङ्ग में (भूमिः) भूमि (तिष्ठति) ठहरती है, (कस्मिन् अङ्गे) कौन से अङ्ग में (अन्तरिक्षम्) अन्तरिक्ष (तिष्ठति) ठहरता है। (कस्मिन् अङ्गे) कौन से अङ्ग में (आहिता) ठहराया हुआ (द्यौः) सूर्य (तिष्ठति) ठहरता है, (कस्मिन् अङ्गे) किस अङ्ग में (दिवः) सूर्य से (उत्तरम्) ऊँचा स्थान (तिष्ठति) ठहरता है ॥३॥
भावार्थ - मन्त्र १ के समान है ॥३॥
टिप्पणी -
३−(कस्मिन् अङ्गे) (तिष्ठति) वर्तते (भूमिः) पृथिवी (अस्य) ब्रह्मणः (अन्तरिक्षम्) अ० १।३०।३। मध्यवर्ती लोकः (आहिता) स्थापिता (द्यौः) प्रकाशमानः सूर्यः (उत्तरम्) उच्चतरं स्थानम् (दिवः) सूर्यात्। अन्यत् पूर्ववत् ॥